________________
तृतीयः खण्डः -- श्रीक्रमः
परिसंख्याशेषत्वेन " एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत्” इति निन्दया अर्थवादरूपया स्तौति । इदं वचनं भवत्साधकं कथं भवेत् ॥
न च क्षत्रियादिकर्तृकत्वेनैव ब्राह्मणादिकर्तृकत्वनिवृत्तिः, यथा गोधूमनिवृत्तिब्रूहिनियमेन, तथा च कथं ब्राह्मणकर्तृकप्रयोगे तस्य प्राप्तिः तन्निवृत्त्यर्था परिसंख्या वा कथं—इति वाच्यम्, दृष्टान्तवैषम्यात् । दर्शपूर्णमासयागः द्रव्यमन्तरा अनुपपन्नः इत्याक्षेपेण इतरद्रव्यादिवत् पक्षे त्रीहिप्राप्तौ त्रीहय एवेति नियम्यते । तावता दर्शपूर्णमासे द्रव्यान्तराकाङ्क्षाविरहादार्थिकी इतरनिवृत्तिः । प्रकृतौ राजन्यवैश्यकर्तृके प्रयोगे प्रतिनिधिनियमेन द्रव्याकांक्षाया विरहेsपि ब्राह्मणकर्तृके द्रव्याकांक्षासत्त्वात् पक्षे अस्यापि प्राप्तौ परिसङ्ख्याया युक्तत्वात्, तस्मात् अनेन प्रतिज्ञासिद्धिः षण्डेनेव पुत्रोत्पत्तिः ||
१४५
66
यच्च " क्षीरेण ब्राह्मणैस्तर्प्या " इति भैरवीतन्त्रवचनं साधकत्वेन लिखितं तदपि बालप्रतारणामात्रं भैरवीतन्त्र एव एतद्वचनसमीपे “ क्षीरं वृक्षसमुद्भूतं” इत्यनेन क्षीरादिपदार्थनिर्णयात् । यत्तु क्षीरं वृक्षसमुद्भूतं” इत्यस्य क्षीरं वृक्षसमुद्भूतकार्यकारीत्यर्थं कृत्वा वृक्षसमुद्भूतकार्यं तर्पणं क्षीरे प्रसिद्धे विधीयत इति, तदशुद्धम् । वृक्षसमुद्भवादिपदत्रयस्य किं द्रव्यसामान्यमर्थः, किं द्रव्यविशेषः । आद्ये वृक्षसमुद्भूतत्वरूपशक्यार्थप्रवृत्तिनिमित्तरूपस्य द्रव्यत्वावच्छिन्ने बाधाद्विशेषार्थे शक्तस्य सामान्यॆ लक्षणा । तथा सति श्रूयमाणशक्यार्थत्यागः वृक्षसमुद्भूतपदेनैव आज्यादिषु विधानसंभवे एकार्थानां तत्फलसंभवादिपदानां वैय्यर्थ्य च । वृक्षसमुद्भवादिपदं द्रव्यविशेषपरमिति द्वितीयपक्षे द्रव्यविशेषस्य कार्य क्षीरे विधीयते । तत्किं दृष्टं वा, किं वाऽदृष्टसाधनं शास्त्रीयं कार्यं विधीयते । आद्ये विधानवैय्यर्थ्य, लोकत एव ज्ञातुं शक्यत्वात् । द्वितीये यथा “ खलेवाली यूपो भवति" इत्यत्र 'यूपे पशुं नियुञ्जीत " इत्यनेन शास्त्रेण कृतं यत्कार्य तत्खलेवाल्यां विधीयते । तथा शास्त्रान्तरप्राप्तं विधीयते उत शास्त्रान्तरेण अप्राप्तं विधीयते । आद्ये क्षीरं वृक्षसमुद्भूतमित्यनेनैव वृक्षसमुद्भूतकार्यस्य क्षीरतर्पणादेर्लाभे क्षीरेण ब्राह्मणैस्तर्प्यति शास्त्रं व्यर्थम् । न हि " खलेवाली यूपो भवति ” इति प्रोच्य “ खलेवाल्यां पशुं नियुञ्जीत " इति पृथगुक्तं अप्राप्तकार्यस्य विधानं, तद्वत् वन्ध्यापुत्रादेरपि दम्पतिकार्यत्वेन विधानापत्तेः । मन्मते तु क्षीरेण ब्राह्मणैस्तप्येति तर्पणसाधनद्रव्यविधिः
66
19