________________
परशुरामकल्पसूत्रम्
1
66
इति भैरवीतन्त्रे क्षीरादिपदानां आसवविशेषपरिभाषणात् ब्राह्मणस्यापि तत्राधिकारः प्रतीयते इति चेत् —— अत्र प्रतिभाति । क्षीरादीनां कथं भैरवकल्पमित्यत्रेदं वचनम् । तेन क्षीरं वृक्षसमुद्भूतं वार्क्ष मैरेयमित्यर्थः । एवमग्रेऽपि । अन्यथा क्षीरवृक्षपदादेर्वैपरीत्येन प्रयोगापत्तेः, 'अनुवादमनुक्त्वा तु न विधेयमुदीरयेत्” इति न्यायात् । तण्डुलोद्भवस्त्वोदनः । तेन शूद्रस्याप्योदनस्थाने आसवमेव तेन । पृथगोदनं, ब्राह्मणादिभिः आसवं च, न देयमित्यर्थः । लिखितवचनात् आमं, “ शुद्रहस्तेन पक्वान्नं पक्क मुच्छिष्टमुच्यते " इत्यादिस्मृतेश्व ॥
नच — शुक्रशापस्य ब्राह्मणविषयत्वेन सुरायां तदुद्धारविधानानुपपत्तिः इति वाच्यम्, शूद्रमात्रस्य सदाऽधिकारे शास्त्रसिद्धे शुक्रशापविमोचनस्यादृष्टार्थत्वात् ॥
किं च– “ “ ऐन्द्रया गार्हपत्यमुपतिष्ठते' इत्यादौ लिङ्गापेक्षया श्रुतेवि शापविमोचनकल्प्यमैरेयदानविधानापेक्षया ' ब्राह्मणो मदिरां दत्वा' इत्यादि निषेधविधेः श्रौतस्य बलवत्त्वं युक्तिसाम्यात्" इत्यन्तेन लेखेन ब्राह्मणेतरपरमिति प्रतिज्ञां दृढीचक्रुः नृसिंहपण्डिताः ॥
तदतीव मन्दम् । तथाहि — द्रव्येण सात्विकेनेति ज्ञानार्णववचनं स्वसाधकत्वेन लिखितम् । तदत्यन्तमपरिशोधनमूलम् । सात्विकद्रव्यं नाम व्रीह्यादिवत् [न] लोकप्रसिद्धं किंचिदस्ति । अतः किं तत्सात्विकद्रव्यं इत्याकाङ्क्षायां प्रकृतिप्रत्यययोः व्याकरणस्मृतिवत् शास्त्रैकगम्या सात्विकपदशक्तिः । तच्छास्त्रं त्रिपुरार्णवे —
१४४
गौडी माध्वी च पैष्टी च त्रिविधं द्रव्यमीरितम् । ऐक्षवक्षौद्रजाताssद्या गौडी स्यात् सात्विकी स्मृता ॥ मधूककुसुमद्राक्षातालवृक्षादिसंभवा ।
माध्वीति कीर्तिता तज्ज्ञैः राजसी सा भवेच्छिवे ॥ पिष्टतण्डुलजाता या तामसी पैष्टिकी स्मृता । सात्विकी ब्राह्मणे ख्याता राजसी नृपवैश्ययोः ॥ इति ॥
-
एवं सति शास्त्रे ब्राह्मणेतरपरमिति प्रतिज्ञा अज्ञानमूलेति ध्रुवं प्रतीमः । तथा महाकालसंहितास्थं जानीयात् “ नारिकेलोदकं कांस्ये " इति । राजन्यवैश्यकर्तृकप्रयोगे मुख्यद्रव्यप्रतिनिधिनियमं विधाय ब्राह्मणकर्तृके प्रयोगे उक्तद्रव्यपरिसंख्यां कृत्वा