________________
१४३
तृतीयः खण्ड:-श्रीक्रमः " वर्णानुक्रमभेदेन द्रव्यभेदा भवन्ति वै” इति ज्ञानार्णवे, “ द्रव्येण सात्विकेनैव ब्राह्मणः पूजयेच्छिवाम्' इति तत्रैवोक्तम् । तथा आसवभेदमुक्त्वा
एवं दद्यात् क्षत्रियोऽपि पैष्टी तु न कदाचन । नारिकेळोदकं कांस्ये ताने गव्यं तथा मधु ।। राजन्यवैश्ययो'र्दानं न द्विजस्य कदाचन ।
एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ॥ इति महाकालसंहितायाम्,
क्षीरेण ब्राह्मणैस्ता घृतेन नृपवंशजैः ।
माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः । इति भैरवीतन्त्रे,
यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् ।
ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥ __इति कुलचूडामणौ,
ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते ।
स्वगात्ररुधिरं दत्वा स्वात्महत्यामवाप्नुयात् ॥ इति हंसमाहेश्वरतन्त्रे, कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रामण्यां सुराग्रहणनिषेधस्योक्तत्वात्, "ब्राह्मणैस्तु सदाऽपेया" इत्यकारप्रश्लेषात् ब्राह्मणस्य सदा निषेधः । क्षत्रियस्य सङ्ग्रामकाले, विकलस्य सङ्ग्रामासंभवात् । वैश्यस्य धनप्रयोगकाले, अन्यथा विकलधिया विंशतिदाने कर्तव्ये शतादिदानापत्तेः । शूरैनैव कदाचन अपेया तेन सर्वदैव पेयेत्यर्थः । एवं च “ पूजनीया कलौ देवि केवलैरासवैः' इत्यत्र अनुषज्यमानसर्ववर्णशब्दश्च ब्राह्मणेतरविषय इत्यवधातव्यम् ॥
अथ
क्षीरं वृक्षसमुद्भूतमाज्यं वल्कलसंभवम् ।
मधु पुष्परसोद्भूतं आसवं तण्डुलोद्भवम् ॥ 1 देयं ब्राह्मणस्य--श्री. 'हीनो भवति ब्राह्मण:-श्री. पीत्वा-श्री.