________________
१४२
परशुरामकल्पसूत्रम् इति ग्रन्थेन । तस्मात् निरवकाशविशेषद्रव्यस्वीकारविधेः क्रत्वर्थत्वकल्पनात् निषेधस्य । च केवलपुरुषार्थत्वेन एकार्थत्वाभावात् । अत एवैतदभिप्रायसूचकमेव कामादिति त्रिपुरार्णवे, कुलार्णवे च कामकृते इति, पदं पठितम् । एवं तन्त्रान्तरे
दोषोऽन्यत्र वरारोहे यज्ञे दोषो न विद्यते ।
अश्वमेधादियज्ञेषु वाजिहत्या यथा भवेत् ॥ इति सदृष्टान्तमुक्तार्थमेव द्रढयति ॥
अत्र ताराभक्तिसुधार्णवे “ एवं च वीरस्यापि ब्राह्मणस्य क्षीरमेव अन्यस्य तदपि न" इति भावशोधनप्रकरणे उक्त्वा एवमेतदने स्थलान्तरे उक्ताया एव प्रतिज्ञाया दृढीकरणाथै बहुविचारः कृतो नृसिंहाचार्यैः । तथा हि
वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविभूषितम् ।
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ तर्पणमत्र पानमेव । इदं तु ब्राह्मणेतरविषयम्, ब्राह्मणस्य तदुपादाननिषेधात् ॥
ननुब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे ।
वैश्यैर्धनप्रयोगे च शूद्वैस्तु न कदाचन ॥ इति कुलार्णवे,
सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् । इति समयाचारतन्त्रे,
सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः । त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः ॥ मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे ।
पूजनीया कलौ देवी केवलैरासवैः शुभैः ॥ इति यामळे चोक्तत्वात् कथं ब्राह्मणस्यानधिकार इति चेत्— उच्यते । " विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः' इति लघुस्तवे,