________________
१४१
तृतीयः खण्डः-श्रीक्रमः
कुलद्रव्यस्वीकारविधिसमर्थनम् ननु सकलश्रुतिस्मृतिपुराणेषु सुरापानस्य पञ्चमहापातकेषु गणितत्वात् कथं __तन्त्रोक्तद्रव्यसेवनं सुखाय भवितुमर्हति । एवं येषु तन्त्रेषु द्रव्यसेवनं विहितं तेष्वेव तन्त्रेषु निषेधो बहुळमुपलभ्यते । यथा कुलार्णवे
सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् । तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् ॥ आजानुभ्यां भवेत् स्नानमानाभ्युपवसेच्छिवे । ऊर्ध्वं नाभेस्त्रिरात्रं स्यान्मद्यस्य स्पर्शने विधिः ।। सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् । मुखे तया विनिर्दग्धः ततः शुद्धिमवाप्नुयात् ॥
मद्यपानजदोषस्य प्रायश्चित्तमितीरितम् ॥ इति ॥ त्रिपुरार्णवेऽपि
कामान्मोहाद्यदि सुरां पिबेत् सकृदपि द्विजः ।
विद्वानपि च संत्याज्यः तन्त्रज्ञैरविचारितम् ॥ इति ॥ देवीयामळेऽपि -
आघ्राणं दर्शनं चैव सुरायास्संत्यजेद्बुधः ॥ इति ॥ दर्शनमेव त्यजेत् किमु पानत्यागे इति तदर्थः । एवं अन्यतन्त्रवचनान्यपि बहूनि सन्ति । ग्रन्थविस्तरभयान्नेह लिख्यन्ते । तस्मात् कुलद्रव्यस्वीकारशास्त्रमश्रद्धेयमिति चेत्–न, रागप्राप्तसुरापाननिवर्तकान्येव अमूनि वचनानि । क्रत्वर्थप्रवृत्तिरिष्टैव,
अन्यथा “न ब्राह्मणं हन्यात् ” इति निषेधेन “ब्रह्मणे ब्राह्मणमालभते" ___ इति श्रुतेरप्रामाण्यापत्तेः । अयमेवार्थः स्पष्टमुक्तः श्रीभागवते
यज्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् ॥ ये त्वनेवंविदः पुंसः स्तब्धास्सदभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ।