________________
परशुरामकल्पसूत्रम् यस्त्विच्छया कृतः पुंभिराभासो ह्याश्रमात् पृथक् ।
स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ नि हामवार्थमा । अस्य श्लोकस्य “स्वधर्मानुष्ठानानन्तरं धर्मभूयस्त्वार्थमपि परधर्मो नानुष्ठय: अनुपयोगादित्याह-स्वभावेति" इति श्रीधरस्वाम्यवतरणम् । एतेन श्लोको न्याग्न्यातः ॥ ३० ॥
तत्पात्रस्थबिन्दुभिः करणीयकृत्यमाह
तदिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा आर्द्र ज्वलति ज्योतिरहमस्मि ज्योतिर्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहेति तद्विन्दुमात्मनः कुण्डलिन्यां जुहुयात् ॥ ३१॥
त हिन्दु भिः विशेषायबिन्दुभिः त्रिशः त्रिवारं शिर सि द्वादशान्तस्थाने गुरुपादु का मि ष्ट्वा गुरुपादुकोद्देशेन द्रव्यदानं कृत्वा आर्दै ज्वल ति इति स्वाहा उन्लेन मन्त्रेण त द्वि न्दं गुरुपादुकायागशेषबिन्दुमित्यर्थः, सर्वनाम्नां सन्निहितपवन पादुकादत्तशेषस्यैव सन्निहितत्वात् , “ तदीयं शेषमादाय जपन् योगं जगात" इति योगिनीतन्त्रवचनाच्च । आत्म नः स्वस्य कु ण्ड लिन्यां चिह्नौ । कापडलिनीम्वरूपमुक्तं तन्त्रान्तरे
विशदे कर्णिकायां च ध्यात्वाऽऽधारेऽथ लोहिते । कर्णिकाकुलकुण्डान्तस्सार्धत्रिवलयाकृतिम् ॥ प्रमुप्तसर्पसदृशीं बिसतन्तुतनीयसीम् ।
ध्यात्वा कुण्डलिनीशक्तिम् . . . . . ॥ इति ॥ जह या त् इत्यनेन अस्मिन् कर्मणि होमबुद्धिः दृढा कार्या, न तु पानबुद्धिरिति मुचिता । बिन्दुमित्यनेन होमद्रव्यस्यात्यल्पत्वं सूचितम् । बिन्दुमिति 'द्वितीयया प्रतिपनिम्कारोऽपि सूचितः । गुरुपादुकायै दत्तशेषं होमेन संस्कुर्यादित्यर्थः । तेन शेषाभावे न होमः ॥