________________
- श्रीक्रमः
तृतीयः खण्डः --
१३९
"
1
अस्योदाहरणं भवस्वामिना दर्शितम् । यथा तृतीयसवने “ सौम्यं तन्त्रं तूष्णीं ” इति शालिकिशाखायाम्, “ दर्शपूर्णमासवत् सर्व” इति शाखाऽन्तरे । स्वस्वशाखिभिः यथोक्तमनुष्ठेयम् । आपत्तौ तु सर्वैरपि तूष्णीमिति । इत्थं च त्र्या [द्वया] दिपात्राणामापत्काले अभ्यनुज्ञापकं शास्त्रं कथं आ[ अना]पन्नपरमिति व्यवस्थापयेत् । तस्मान्न किंचिदेतत् । परशुरामसूत्रयोगिनीतन्त्रानुसारिभिः निःशङ्कं द्विपात्रासादनमेव कर्तव्यम् ॥
ननु तन्त्रान्तरस्थद्विपात्रदूषकवचनानां विधिशेषार्थपरत्वं व्यवस्थाप्य सूत्रानुसारिभिः द्विपात्रप्रयोग एव कार्यः तन्त्रान्तरस्पर्शो न कार्यः इति प्रतिज्ञायां " तन्त्रानुक्तं सूचितं च तथाऽन्येष्वपि दूषितम् " अन्यतन्त्रात् ग्राह्यं इति विध्युदाहरणं किमिति चेत् — शृणु । अस्यैव वचनस्याव्यवहितपूर्व,
क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः । एकं तन्तं समाश्रित्य सम्यकर्मकृते तथा । सर्वं तेन कृतं राम तच्च श्रीगुरुमार्गतः ॥
इत्यनेन पूजाऽङ्गानां पूजाऽनङ्गभूतानां यावत्कर्मणां स्वतन्त्रानुक्तानां निवृत्तौ कथितायां “ तन्त्रानुक्तं सूचितं च" इत्यनेन केषांचित्पूजाऽङ्गानां ग्रहणम्, "" तथाऽन्येष्वपि दूषितं " इत्यनेन पूजाऽनङ्गभूतानां केषांचिदकरणे अतिनिन्द्रा, श्रूयते । यथा सहस्रनामपाठः । तस्याननुष्ठाने
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति । अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ स चक्षुषा विना रूपं पश्येदेव विमूढधीः । रहस्यनामसाहस्रं मुक्त्वा यः सिद्धिकामुकः ॥ स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥
इत्यादिवचनैः अपाठेऽपि निन्दा श्रयते । तत्तन्त्रान्तरस्थमवश्यं ग्राम् । अत्रैव त्रिपुरारहस्यवचनाभिप्रायः । " स्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत्” इति पूर्वलिखिततन्त्रान्तरवचनस्याप्यत्रैव तात्पर्यम्, न तु एकप्रयोगाङ्गेषु तन्त्रान्तराश्रयणम् । प्रयोगाङ्गेषु सूचितं आकाङ्क्षितं च मुक्त्वा तन्त्रान्तरस्थस्य ईषदपि प्रवेशो नास्तीति परमसिद्धान्तः । अत एव श्रीभागवतेऽपि —