________________
परशुरामकल्पसूत्रम्
१३८
वचनेन परिपक्वचित्तानां योगाभ्यासदक्षाणां उत्तरचतुश्शत्युक्तमेकं पात्रं विशेषार्घ्यरूपं समष्टिमन्त्रेण पूजनम् । अपरिपक्वचित्तानां योगिनीतन्त्रानुसारिणां पूर्वोत्तरचतुश्शतीमेकीकृत्य द्विपात्रप्रयोग इति सेतुबन्धाभिप्रायतत्त्वम् । एवमेव सूत्रानुयायिनामित्यलं पल्लवितेन ॥
नापि परमापत्पक्षो वेति तृतीयः पक्षः । तथा हि तृतीयपक्षसाधकं यद्वचनं
प्रत्यक्षे युग्मपात्रं वै कृत्वा शापमवाप्नुयात् । क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः ॥
इति लिखितं तत् किं " योपगुरेत्तं शतेन यातयात्" इतिवच्छापरूपानिष्टसाधनत्वं द्विपात्रे ज्ञापयति उत्तरार्धस्तच्छेषोऽर्थवादः, उत पूर्वार्धेनानिष्टसाधनत्वं उत्तरार्धेन आपत्तौ अभ्यनुज्ञा चेति द्वयमुच्यते, अथवा केवलमभ्यनुज्ञापर एव वा सर्वोऽपि श्लोकः । नाद्यः, उत्तरार्धस्य अर्थवादरूपस्य केवलस्तुतौ तात्पर्येणापत्तिकाले अभ्यनुज्ञापकत्वासंभवात् स्वोक्तपक्षासिद्धेः । किं च - द्विपात्रे अनिष्टसाधनत्वं प्रतिपादयन् द्विपात्रे प्रवृत्तं पुरुषं निवर्तयति इति वाच्यम् । तत्र द्विपात्रप्रयोगे प्रवृत्तिसाधनं रागो वा तन्त्रान्तरं वा । नाद्यः, त्रिपात्रं कर्तव्यमिति विधिसत्त्वे अङ्गोपाङ्गीतस्य श्रद्धावतः द्विपात्रे रागो न कदापि संभवति । न द्वितीयः, विकल्पो दुप्परिहारः इति प्रागेव दत्तोत्तरत्वात् । एतेन द्वितीयपक्षः प्रत्युक्तः । तस्मात् अगत्या यस्मिंस्तन्त्रे इदं वचनं पठितं तत्र त्रिपात्रविधिः स्यादेव । तच्छेषः पूर्वार्धोऽर्थवादः । उत्तरार्धेन त्रिपात्रविधितन्त्रानुयायिनां परमापत्तौ स्वान्यतन्त्रोक्त द्विपात्रप्रयोगग्रहणमभ्यनुज्ञातम् ।
अनृतं न वदेद्विद्वाननृतं धर्मनाशनम् । प्राणसंशय आपन्ने त्वनृतं नैव दुष्यति ॥
इतिवत् तृतीयपक्ष एव साधुः । अयमेवार्थः स्पष्टीकृतो बोधायनाचार्यै:
स्वशास्त्रे विद्यमाने यः परशास्त्रेण वर्तते ।
भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः ॥ आर्षेयस्य स्वशास्त्रस्य प्रदेशास्तद्गु[परशास्त्रगु]णैस्सह । कर्मणां प्रविचारा[र्या]र्थमापत्सु च समाप्नुयात् ॥ इति ॥