________________
तृतीयः खण्डः-श्रीक्रमः तन्त्रराजे-" नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत्” इति कथनात् । नित्याहृदयमेतदुत्तरतन्त्रनाम । अत्र बहिर्यागाङ्गानामल्पानां कथनेऽपि अन्तरङ्गोपास्तिदायशीलानां तावतैव परिपूर्तिसंभवात् इति कल्प्यत इति लिखितत्वात् । मतद्वयखण्डनपूर्वकपूर्वलिखितैतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टं इति वाक्ये एतत्पदं उत्तरचतुश्शतीपरम् । उत्तरचतुश्शत्यां तु शुद्धान्तःकरणस्यैवाधिकारात् तेषां प्रयोग एव पात्रद्वयमिति सिद्धान्तः समीहितः । एतदभिप्रायेणैवास्माकं सेतुबन्धसंमतिलेखोऽपीति-तदपि न। तथा सति उत्तरतन्त्रे सामान्यायॊदकोत्पत्तिविध्यभावेन केवलमुत्तरचतुश्शतीतन्त्रेणैवानुतिष्ठतां विशेषार्घ्यपात्रस्यैवासादनं प्रसक्तं, न पात्रद्वयस्य । तथा चोपसंहारवाक्ये एतत्तन्त्रानुसारेण द्वयोः स्थापनमिष्टमिति वाक्यं विरुध्यत एव । तस्मादेतत्तन्त्रपदेन पूर्वोत्तरचतुश्शतीमेकीकृत्य समग्रतन्त्रानुयायिनामित्येवाभिप्रायः । अत एव सामान्याय॑स्य पूर्वचतुश्शत्यामुत्पन्नस्य विनियोगोऽष्टमपटले वक्ष्यतीति सेतुबन्धलेखश्च सङ्गच्छते । एतेन पूर्वोत्तरतन्त्रोक्तमेकमेवेति स्पष्टम् । ईदृशी पूजा अपरिपक्वचित्तस्यापि प्राप्ता, तदनुसारेण पात्रद्वयं दुर्निवारम् ॥
यश्च बहिर्यागाङ्गानामल्पानां कथनेऽप्यन्तरङ्गोपास्तिशीलानां तावतैव परिपूर्तिरिति सेतुबन्धलेखः स नैतत्तन्त्रानुसरिपरः । किं तु तन्त्रराजानुसारेण पूर्वमुपास्तिं कुर्वतः कालेन चित्तशुद्धिपूर्वकभावनायां संपन्नायां " इत्थं कुर्वन् हि सततं मुच्यते नात्र संशयः" इति वचने साङ्गबहिर्यागस्य सततमित्यनेन तदुत्तरमपि यावज्जीवं साङ्गोपास्तिप्राप्तौ तद्बाधकमिदं " नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत्"
इति । नित्याहृदयमुत्तरचतुश्शती, तत्र प्रोक्तो यः स्फुट: उपायः बहिर्यागानुष्ठान__ पूर्विका भावना, तां कुर्यादिति तदर्थः–तन्त्रराजे बहिर्यागाङ्गानां बहुत्वात्
योगाभ्यासं चिकीर्षतां तदनुष्ठानपूर्वकयोगाभ्यासे कालाभावेन कानि हेयानि कानि संग्राह्याणि इति विचिकित्सायां योगमभ्यसिषोः यावज्जीवप्राप्ततन्त्रराजोक्तयावदङ्गकलापानुष्ठानं न कर्तव्यम् , किं तु उत्तरचतुश्शत्युक्ताल्पाङ्गकलापेनैव बहिर्यागं संपाद्य भावनां कुर्यात् , तावतैव तस्य परिपूर्तिरिति कल्प्यत इति तन्त्रराजानुयायिनः उत्तरचतुश्शतीधर्मप्राप्त्यभिप्रायकः । नैतावता निखिलं तन्वं योगाभ्यासिपरमिति ब्रह्मापि साधयितुं शक्नोति । तथा सति तन्त्रराजवचने नित्याहृदयेत्यनेन उत्तरचतुश्शत्या एव योगाभ्यासिपरत्वकथनात् पूर्वचतुश्शतीपाठवैय्यर्थ्यात् । अतस्तन्त्रराज
18