________________
१३६
परशुरामकल्पसूत्रम्
परिपक्वचित्तस्य सूत्रोक्तपूजायामधिकार इति द्वितीयः पक्षः । तथा सति सूत्रे दीक्षापाठवैय्यर्थ्यात् । एवमेतत्पक्षसाधकत्वेन त्रिपुरार्णववचनम् " आत्मयोगपराणां तु नाङ्गलोपेन हीयते " इत्यलिखत् । तदतीव मन्दम् । योगाभ्यासिनामङ्गलोपो न दोषायेति तदर्थः । योगिरूपाधिकारिविशेषं उद्दिश्य सूत्रोक्तद्विपात्रविधिरिति सिद्धान्तस्तदीयः । एवं च योगिप्रयोगे तृतीयपात्रस्य वैश्यकर्तृकदर्शपूर्णमाससम्बन्धिसामिवेन्यां पञ्चदश्यस्येवानङ्गत्वादङ्गलोप एव नास्ति । एवं सत्यङ्गलोपे दोषो नास्तीति स्वमतसाधकत्वेन हेतुकथनं वन्ध्यापुत्रस्य स्वकार्यसाधकत्वेन ग्रहणवदेव भवति । या चैतद्विषये एकपात्रादिसङ्क्षेपपूजनमभ्यासशीलानामिति सेतुबन्धलेखसम्मतिर्दर्शिता, साऽप्यसिद्धा । सेतुबन्धे ईदृशी पङ्क्तिः न कुत्राप्यस्ति । प्रत्युत द्विपात्रप्रयोग एव व्यवस्थापितः । तथा हि —— पूर्वचतुश्शतीसम्बन्धिनः
हेमादिपात्रे साधारे स्थापयेद मञ्जसा । रोचनाचन्द्रकाश्मीरलघुकस्तूरिकायुतम् ॥ भावयेद्वह्निसूर्येन्दुभूतानि परमेश्वरि । जपेच्च दशवारं तत्तर्पयेत्तेन योगिनीः ||
<<
इति श्लोकद्वयस्य व्याख्यानावसरे इदं पूर्वतन्त्रस्थवचनं सामान्यार्घ्यपरं, उत्तरतन्त्रस्थं 'श्रीचक्रस्यात्मनश्चैव मध्ये त्वयै प्रतिष्ठयेत् ” इति विशेषार्घ्यप रं, तदन्ते “ तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः " इति गुरुपात्रात्मपात्रान्यतरपरमिति प्राचीनव्याख्यां निरस्य पूर्वतन्त्रस्थवचनमेव विशेषार्ध्यपरमित्यपि मतान्तरं निरस्य पूर्वतन्त्रे सामान्यार्ध्यविधिः उत्तरतन्त्रस्थेन श्रीचक्रस्यात्मनश्चेति वचनेन तस्यैव देशकालविधिः “ तथैवार्घ्यं विशेषेण " इति पूर्वधर्मातिदेशसहितविशेषार्घ्यविधिरिति व्यवस्थाप्योपसंहारसमये “ तस्मादेतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टं " इति द्विपात्रव्यवस्थामात्रं श्रीभास्कररायाश्चक्रुः । ( सा च अस्माकमनुगुणा परेषामननुगुणा च) | योगिनामेवायं प्रयोगः इति नोचुः ॥
यत्तु — सेतुबन्धे स्थलान्तरे तन्त्रान्तरेषु योगिनीतन्त्रस्योत्तरचतुश्शतीवदन्तर्यागप्रपञ्चस्याभावात् तन्त्रराजस्याप्येतत्सापेक्षत्वादत्युत्तमं एतत्तन्वं एतत्सापेक्षत्वं च
1
मम्बुना -- ब.