________________
तृतीयः खण्डः-श्रीक्रमः
१३५ दीक्षेति वक्तुमशक्यत्वात् । द्वितीये— ईदृशाभ्यासी एतत्तन्त्रविहितपूजाकर्ता किमेतत्तन्त्रोक्तदीक्षावान् उत तन्त्रान्तरेण दीक्षितस्य कालेन स्वतन्त्रानुष्ठानेन परिपक्वचित्तस्यैव एतत्सूत्रोक्तपूजायामधिकारो वा । नाद्यः, दीक्षाऽव्यवहितोत्तरक्षणे न भवदभिमतध्यानसिद्धिः । अयमनुभूयते सर्वैः । इत्थं च सूत्रानुसारेण दीक्षां संपाद्य अयोगित्वेनैतत्तन्त्रोक्तपूजानधिकारात् तन्त्रान्तराश्रयणं पूजाऽर्थ कर्तव्यम् । तर्हि
स्वशास्त्रे वर्तमानो यः परशास्त्रं निषेवते ।
भ्रूणहत्यामवाप्नोति स्वशास्त्रमवमन्यते । इति निषेधोल्लङ्घनम् । किं च-दीक्षोत्तरं महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् इति सूत्रेण ललितोपास्तिविघ्ननाशसाधनत्वं गणपत्युपास्तेरुक्तम् । ललितोपास्त्यनन्तरं हि तत्साध्यश्चित्तपरिपाकः ततो निरुक्तयोगः । तदनन्तरं द्विपात्रप्रयोगे अधिकारो वाच्यः । स न संभवति गणपत्युपास्तेः विघ्नसमानकालिकत्वेन तदानीं निरुक्तयोगाभावादपि गणपत्युपास्तौ द्विपात्रकथनात् तत्रावश्यं द्विपात्रप्रयोगोऽङ्गीकार्यः । इत्थं च तत्र व्यभिचरिताधिकारस्य अन्यत्रापि कल्पनं केन प्रतिबद्धम् , सकृद्वयभिचरितायाः स्त्रियः किमपरत्र वस्त्रावगुण्ठनेनेति न्यायात् ।
न च—यश्चायोगी तेन गणपत्युपास्ति त्यक्त्वा केवलललितोपास्तिरेव तन्त्रान्तरमनुसृत्य योगसिद्धिपर्यन्तं अनुष्ठेया न गणपत्युपास्तिः, अथवा गणपत्युपास्तावपि तन्त्रान्तरमाश्रीयतां—इति वाच्यम् । तथा सति “ एवं गणपतिमिष्टा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत" इति सूत्रेऽपि अपामाण्यं वक्तव्यं स्यात् । सूत्रे गणपत्युपास्तिपाठवैय्यर्थ्यम्—न ललितोपास्तेः पूर्वमनुष्ठानं अयोगित्वेन तस्य तदाऽनधिकारात् । ललितोपास्त्या फलसिद्धयनन्तरमपि अप्रयोजकत्वात् अननुष्ठेयम् । एवं च वैय्यर्थ्य दुर्निवारम् ॥
न च--द्विपात्रनिषेधस्य ललिताप्रकरणस्थत्वात् तत्रैवायोगिनामनधिकारः । अन्यत्रास्त्येव द्विपात्रप्रयोगेऽधिकारः 'निषेधाभावात् इति—वाच्यम् ; श्रीललिताया महायागानुष्ठानावसरे निर्विघ्नतासिद्धये परशुरामसूत्रानुसारेण निखिलगणपत्युपास्ति विधाय पात्रासादनकाले द्विपात्रप्रयोगं परित्यज्य त्रिपात्रप्रयोगमनुसरतां महेश्वरानन्दनाथानां एतत्पक्षस्याननुमतत्वात् । नापि तन्त्रान्तरेण दीक्षितस्य स्वतन्त्रानुष्ठानेन