________________
BREA
परशुरामकल्पसूत्रम्
मपञ्चकस्य मुख्यत्वं सुस्फुटम् । एवं सति सूत्रमनुकल्पपरमिति लेखः पूर्वोत्तरसूत्रापरिशोधनमूलः प्रामादिक इति य एव ॥
किं च- एतत्पक्षस्य साधकतया शापमोचनाभावो हेतुत्वेनोपन्यस्तः । स तु अत्यन्तनिर्मूलकोऽसङ्गतश्च । तथाहि — शापविमोचनं नाम किं पूर्वं कृष्णं स्थितं यत् तस्यानन्तरक्रियया शुक्लत्वसंपादनरूपं दृष्टं फलं, किं वा संमार्गादिना सुक्ष्विवादृष्टं यागसाधनशरीरं उत्पद्यत इति । नाद्यः, शापमोचकमन्त्रसहस्रावृत्त्याऽपि पूर्वरूपपरावृत्त्यदर्शनात् । न द्वितीयः,
१३४
क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः ।
एकं तन्त्रं समाश्रित्य सम्यक्कर्म कृतं तथा ॥ सर्वं तेन कृतं 'रामे तच्च श्रीगुरुमार्गतः ॥
इति त्रिपुरारहस्यवचनेन
1
बह्वल्पं वा स्वगृह्येोक्तं यस्य यावत् प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥
इति बोधायनस्मृतिप्रमाणेन च आदिमद्रव्ये यावदुक्तसंस्कारैरेव यागजनकस्वरूपलाभे शापविमोचनमन्त्राणां तत्राप्रयोजकत्वात् कथमनेन हेतुना सूत्रं प्रतिनिधिपरं सिध्येत् । किं च—–मुख्याभावे प्रतिनिधिस्वीकारे मुख्यधर्मा यावन्तः प्रतिनिधौ प्रवर्तन्ते, यथा व्रीह्यभावे नीवारे यावदुद्व्रीहिधर्माः, यथा वा सोमाभावे पूतीकेषु यावत्सोमधर्माः, तत्र ऊहोऽपि नास्तीति साधितं जैमिनितन्त्रे । अनुतिष्ठन्ति च तथैव शिष्टाः । एवं सति प्रतिनिधौ शापविमोचनमन्त्राभावः केन वार्यते । इत्थं च वह्नावनुष्णत्ववदत्यन्तासिद्धहेतुं प्रयुञ्जानास्ते स्वाविद्वत्तां सुस्फुटं प्रकटयामासुः ।।
नापि द्वितीयः पक्षः साधुः । तथा हि- दीक्षाऽद्यारभ्य निखिलपरशुरामसूत्रप्रतिपादितं कर्म योगाभ्यासिपरं, उत पूजामात्रम् । नाद्यः, दीक्षातः प्राक् योगाभ्यासित्वं न संभवति । 'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् " इति निषेधेन तान्त्रिक सिद्धान्तश्रवणाभावेन श्रवणमृते योगासंभवेन योगाभ्यासिनामियं
46
राम- - श्री, ब२.