________________
तृतीयः खण्ड:-श्रीक्रमः
१३३ विधिकल्पनात् पूर्व प्रवृत्तिक्षमः । अत ईदृशस्थले आनुमानिकविधिप्रत्यक्षनिषेधयोः तुल्यबलत्वाद्विकल्प एवेति नवमे तुरीयपादे सिद्धान्तितं जैमिनितन्त्रे । प्रकृतेऽपि तथा तुल्यबलत्वाद्विकल्पो दुष्परिहारः ॥ ___यदि च सूत्रे पात्रद्वयेतिकर्तव्यतासहितस्थापनकथनेन प्रयोगविधौ द्विपात्रविधिर्न कल्प्यते, तन्त्रान्तरानुसारेण पात्रद्वयकथनं तृतीयस्याप्युपलक्षकमिति कल्प्यते, तदा सर्वेष्वपि तन्त्रेषु त्रिपात्रप्रयोगस्यैव तन्त्राभिमतत्वेन द्विपात्रप्रवर्तकाभावेन द्विपात्रविधेः शशशृङ्गसमत्वेन तन्निषेधस्यापि तादृशत्वेन तेन हेतुना कथं त्वत्समीहितसिद्धिः । सेयं उभयतःपाशा रज्जुः । तस्मात् कल्पसूत्रयोगिनीतन्त्रानुसारिभिः द्विपात्रप्रयोगो निश्शङ्कमनुष्ठेयः ॥
___ यत्तु परमानन्दतन्त्रटिप्पण्यां सौभाग्यानन्दसन्दोहसंज्ञिकायां एकोनविंशोल्लासे पञ्चदशश्लोकव्याख्यानावसरे-ननु परशुरामसूत्रवामकेश्वरादितन्त्रेषु प्रोक्तपात्रद्वयं विरुध्येत इति चेच्छृणु । अग्रिमोल्लासे, अनुकल्पपूजायां पात्रद्वयस्य सुस्पष्टं वक्ष्यमाणत्वात् अनुकल्पपूजापरं परशुरामसूत्रादितन्त्रम् । अत एव तत्र शापमोचनमन्त्राणामभाव इति सुवचम् । अथवा--आत्मयोगाभ्यासिपरम् । अत एव त्रिपुरार्णवे " आत्मयोगपराणां तु 'नाङ्गलोपेन हीयते” इति । अत एव श्रीभास्कररायैः एकपात्रादिसंक्षेपपूजनं अभ्यासशीलानामिति सेतुबन्धे निरूपितम् । अथवा परमा पत्पक्षो वा । तदुक्तं तन्त्रे
प्रत्यक्षयुग्मपात्रं वै कृत्वा शापमवाप्नुयात् ।
क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः ॥ -इति महेश्वरानन्दनाथाः पक्षत्रयमूचुः, तच्चिन्त्यम् ॥
परशुरामसूत्रोक्तसरणिर्मुख्या न मिलति । तथा प्रतिनिधिस्वीकारपक्ष इति प्रथमपक्षे “तस्याभिव्यञ्जकाः पञ्चमकाराः तैरर्चनं गुया" इति, “ तद्वदादिमं संशोध्य" इति “आदिमबिन्दु दत्वा” इति “ पूरयित्वा आदिमं” इति • “मपञ्चकेन सन्तर्प्य" इति प्रभृतीनां शतावधिवाक्यानां सूत्रस्थानां कुण्डलप्रक्षेप एव स्यात् । किं च-" मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः” इति सूत्रेण नित्यपूजायां
1 नागलोपो न बाधित:-श्री.