________________
१३२
परशुरामकल्पसूत्रम्
शास्त्रीयः इति वदतां महेश्वरानन्दनाथादीनां विकल्पो न हीष्टः । स च दुष्परिहारः ॥
न च–परशुरामसूत्रे न कण्ठरवेण द्विपात्रं कर्तव्यमित्युक्तम् , किं तु पात्रद्वयप्रयोगस्थपाठानुसारेण कल्प्यो विधिः । “ तस्मात् पात्रद्वयं देवि नैव कुर्यात् ” इति प्रत्यक्षो निषेधः । तथा च प्रत्यक्षेणानुमानिकं बाध्यते । ग्रहणाग्रहणस्थले उभयं प्रत्यक्षमिति विकल्पो युक्तः । प्रकृते न तथा, वैषम्यात् ,—इति वाच्यम् । अग्नीषोमीयपशौ अध्रिगुप्रैषे “ षड्विशतिरस्य वज्रयः” इति मन्त्रोऽस्ति । तत्र, वक्रयः पार्थास्थीनि अस्य पशोः षड्विंशतिरिति तदर्थः । अयं मन्त्रः अश्वमेधे अग्नीषोमीयविकृतित्वात् अतिदेशेन प्राप्तः । तथा सति अश्वमेधे " चतुस्त्रिशद्वाजिनो देवबन्धोः" इति मन्त्रान्तरमस्ति । तेन मन्त्रलिङ्गेन अश्वस्य पार्थास्थीनि चतुस्त्रिंशत् इति सिद्धम् । तत्सिद्धौ " षड्विशतिरस्य वज्रयः" इति मन्त्रे षड्विंशलिङ्गविरोधे तत्स्थाने “ चतुस्त्रिशदस्य वक्रयः” इत्यूहः प्राप्तः । एवं सति अश्वमेधप्रकरणे पुनरेवं श्रूयते-" न चतुस्त्रिशदिति ब्रूयात् , षड्विशतिरित्येव ब्रूयात्" इति । अत्र चतुस्त्रिंशदित्यूहशास्त्रस्यानुमानिकत्वात् तं बाधित्वा न चतुस्त्रिंशत् इति निषेधो नित्यं प्रवर्तते इति पूर्वपक्षमुक्त्वा तदुत्तरं यत्रानुमानिको विधिः निषेधश्च प्रत्यक्षः तत्र द्वयोरपि समबलत्वमङ्गीकार्यम् । तथा हि—प्रबलदुर्बलभावो हि न वस्तुनि स्वाभाविकः कुत्र चिदस्ति, किं त्वाकाङ्क्षायां शीघ्रोपस्थितिविळम्बोपस्थितिप्रयुक्तः । यथा विकृतौ कर्मविशेषे . प्रकृतितो वेद्यास्तरणं प्राप्तम् । तत्र केन वेद्यास्तरणं कार्य इत्याकाङ्क्षायां साधनबोधकं पदं यदि न स्यात् तदा प्राकृतवेद्यास्तरणसाधनं स्मृत्वा कुशान् बुद्धौ आरोप्य पश्चात् प्रकृतिवत् कुशैरास्तरणं कर्तव्यमिति आनुमानिकशब्दकल्पनया आकाङ्क्षा पूरणीया । ततोऽपि झटिति “ शरमयं बर्हिर्भवति" इति प्रत्यक्षवाक्येनोपस्थितशरैः आकाङ्क्षाशान्तौ बोधकशास्त्रस्य तदंशे आकाङ्क्षाविरहात् दुर्बलत्वम् । प्रकृते “न चतुस्त्रिशदिति ब्रूयात् " इति 'निषेधस्य प्राप्तिसापेक्षत्वात् " चतुस्त्रिशद्वाजिनः” इति लिङ्गेन पूर्व विधिकल्पनानन्तरं विधिमनुसृत्य प्रवृत्तं पुरुषं निवर्तयितुं निषेधः पश्चात् प्रवृत्तः । 'न कुशशास्त्रात् पूर्व शरशास्त्रमिव निषेधः
'अतः यमुपजीव्य प्रवृत्तः तमत्यन्तं बाधितुमसमर्थस्सन् पक्षे बाधते । अत ईदृशस्थलेअ. श्री. ब२.