________________
१३१
तृतीयः खण्ड:-श्रीक्रमः नापि चतुर्थः । तथा हि योऽयं “ तस्मात् पात्रद्वयं देवि नैव कुर्यात् कदाचन" इति निषेधः, या च निन्दा--
आलस्येनान्यथा वाऽपि कृत्वा पात्रद्वयं शिवे ।
पूजाफलेन हीनस्तु विक्रियां लभते नरः ॥ इति, त्रिपात्रकमिति विधिशेषार्थवादः । अन्यथा त्रिपात्रविधिनैव द्विपात्रव्यावृत्तौ निषेधस्य निवृत्तिरूपफलाभावेन वैय्यर्थ्यापत्तेः । यदि च विधिना प्रवृत्तिमात्रं निषेधेन च तदितरनिवृत्तिरित्युच्यते तर्हि “एकादश प्रयाजान् यजति" इत्यत्र न द्वादश न दश इति वाक्याभावात् दशभिर्द्वादशभिश्च प्रयाजैरपूर्व स्यात् । तस्माहिधिनैव द्विपात्रनिवृत्तौ निषेधो व्यर्थः सन् तच्छेषोऽर्थवाद एव । अर्थवादस्य स्तुतिमात्रे तात्पर्यम् । न तस्मिन्निषेधरूपत्वमस्ति । कथं निषेधेन हेतुना तन्त्रान्तरे त्रिपात्रत्वसाधनम् ॥
किं च- एतत्तन्त्रे कति पात्राणि ? इत्याकांक्षायां स्वसूत्रे विशेषाश्रवणात् तन्त्रान्तरस्थं 'पूर्ववत्तु त्रिपात्रकं' इति वचनमेव आकाङ्क्षापूरकं सत् त्रिपात्रं साधयतीति परमतम् । तथा सति द्विपात्रप्राप्तेरेवाभावेन निषेधस्य दूरनिरस्तत्वात् ॥
न च अर्थवाद इति वदतस्तव मते द्विपात्रप्राप्त्यभावेन न द्विपात्रं कुर्यादिति वाक्यस्य प्रामाण्यं कथं चिन्त्यते इति वाच्यम् । अर्थवादघटकनिषेधस्य प्राप्तिपूर्वकत्वमिति न नियमः, तस्य स्वार्थे तात्पर्याभावात् । अतोऽप्राप्तार्थनिषेधोऽपि निर्वहति; यथा"नान्तरिक्ष न दिव्यग्निश्चेतव्यः” इति, “ यदन्तरिक्षे चिन्वीत अन्तरिक्ष शुचाऽर्पयेत्” इति । तादृशार्थस्य न स्वार्थे तात्पर्यम् , किं तु प्राशस्त्यमाने । तच्चाबाधितम् ॥
न वा तन्त्रयोः परस्परं प्रकृतिविकृतिभावः सप्रमाणः, यतो वा प्राप्त निषिध्येत । न ह्यप्राप्तनिषेधः स्वप्नेऽपि श्रुतः ॥
किं च-परप्रीतये अर्थवादेऽपि आरोपितनिषेधत्वमस्तु । तथाऽपि न तेषां समीहितसिद्धिः । तथा हि कल्पसूत्रेण पात्रद्वयप्राप्तिः, परमानन्दतन्त्रेण तन्निषेधः, तथा सति तन्त्रयोः समबलत्वेन ग्रहणाग्रहणवद्विकल्प एव स्यात् । निषेधशास्त्रस्यैव स्वरुच्या प्राबल्याङ्गीकारे ग्रहणपक्षस्त्वत्यन्तं बाध्येत । विकल्प एव न स्यात् । द्विपात्रप्रयोगोऽ