________________
१३०
परशुरामकल्पसूत्रम् शक्तिर्मोक्षं कुरुकुरु शब्दो हसचतुर्दशपञ्चदशपिण्डः सहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिः अभिमन्य ज्योतिर्मयं तदयं विधाय ॥ ३०॥
वा ग्भ वः ऐं। वाक् ऐं। मदनः क्लीं । कुरुयुगळं द्विवारं कुर्वित्युच्चार्य । मा दनं क्लीं। शक्तिः सौः । चतुर्दश अचां चतुर्दशः औ। पञ्च द श अनुस्वारः । पिण्डः समुदायः । षोड शो विसर्गः । तथा च मन्त्रस्वरूपं—ऐं वदवद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुकुरु क्लीं सौः मोक्षं कुरुकुरु हसौं स्हौः । इ ती यं पञ्च मी विद्या । ए ता भिः पञ्चभिः अभि मन्त्र्य । ज्यो ति म यं निर्दोष त दर्य विधा य । एतेन तन्त्रान्तरोक्तशापविमोचनादिकं अनेनैव जातमिति सूचितम् ॥
ननु ज्योतिर्मयमित्यनेन अयमभिप्रायः कथं निष्पादित इति चेत्-उच्यते । ज्योतिरिति प्रकाशापरपर्यायः । प्राचुर्यार्थे मयट् । यस्मिन् प्रकाशे मलमिश्रत्वं तत्र प्रकाशप्राचुर्य न संभवति यथोपरक्तदिवाकरादौ । मलनिर्गमे सति तत्रैव प्रकाशप्राचुर्यमनुभूयते । एवमेवादर्शे मुखप्रकाशके । तद्वदत्रापि द्रव्ये नानाशापादिमलोपहते ज्योतिर्मयत्वं न संभवति । प्रोक्तैकोनशतमन्त्रैरभिमन्त्रणे सति निरस्तनिखिलमलं सत् ज्योतिर्मयं भवति । तत एव ज्योतिर्मयं कृत्वेत्युक्तम् । एतेन तन्त्रान्तरोक्तशापविमोचनस्यापि समुच्चय इति केषांचिदुक्तिः अश्रद्धेयैव ॥
__ द्विपात्रविधेः मुख्यत्वसमर्थनम् एवं ये महेश्वरानन्दनाथप्रभृतयः तन्त्रान्तरे नित्यपूजायां " पूर्ववत्तु त्रिपात्रकं" इति वचनात् सूत्रे न कर्तव्यमिति निषेधाभावात् सूत्रानुसारिभिरपि त्रिपात्रं कर्तव्यमित्यूचुः, तान् प्रति अयं प्रश्नः-सूत्रे न कर्तव्यमिति निषेधाभावेन त्रिपात्रत्वं साध्यते, उत तन्त्रान्तरे उक्तत्वात् , उत स्वसूत्रे निषेधाभावे सति तन्त्रान्तरे विद्यमानत्वेन वा, उत तन्त्रान्तरे द्विपात्रनिषेधश्रवणाद्वा । नाद्यः, “व्रीहिभिर्यजेत" इत्यत्र न गोधूमैरिति निषेधाभावात् गोधूमयोगेनाप्यपूर्व स्यात् । न द्वितीयः, तथा सति परशुरामसूत्रोक्तसङ्गीतमातृकावाराह्याद्युपास्तेः श्रीविद्याऽङ्गत्वेन सौभाग्यानन्दसन्दोहे परेषामपि ईदृशाङ्गत्यागस्य नियुक्तिकत्वापत्तिः । एतेन तृतीयपक्षोऽपि निरस्तः ।