________________
'तृतीयः खण्डः-श्रीक्रमः
१२९
तत्सम्बोधने हे अकु ल ना यि के । अखण्डो ऽविच्छिन्नः ए क र सो दुःखासंभिन्नो य आ नन्दः तं करो ति व्यञ्जयतीति तादृशे । परा उत्कृष्टा या सुधा ब्रह्मरन्ध्रस्था अमरत्वकारिणी त दा म नि तत्स्वरूपे अत्र द्रव्ये स्वच्छन्दा स्वतन्त्रा या चित् तस्याः स्फु र णां प्रकाशशक्तिं निधे हि स्थापय । हे परे श्रेष्ठे क्लिन्नमार्द्ररूपं तदस्मिन्नस्ति इति क्लिन्न रू पि णि अस्मिन् वस्तु नि अमृत त्वं निधे हि संस्थापय संपादय । अकुलं व्याख्यातं तत्र विद्यमानं यत् अमृतं तस्य स्वरूपमिव स्वरूपं यस्याः द्रव्याभिमानिदेवतायाः । इदं परेत्यस्य विशेषणम् । शुद्ध ज्ञा न करे स्वरूपज्ञानाविर्भावकर्चि, इदमपि पराविशेषणम् । यत्तु सौभाग्यानन्दसन्दोहे परे इति सप्तम्यन्तं कृत्वा वस्तुविशेषणमित्युक्तम्, तन्न, दूरान्वयापत्तेः । तत् परब्रह्म तस्य यद्रूपं तद्वति परब्रह्मस्वरूपे इति यावत् । तद्रू पि णि विशेषार्थ्यरूपिणि मयि देहाभिमानिनि । परं यत् अमृतं आनन्दः तदा का रा भूत्वा ऐ क र स्यं चित्तस्यैकाकारतां कृत्वा संपाद्य चित्स्फुरणं स्वस्वरूपप्रकाशं कुर्वि ति मन्त्रत्रयार्थः । अनुष्टुभः अनुष्टुप्छन्दस्का इत्यर्थः, “द्वात्रिंशदक्षराऽनुष्टप्" इति श्रुतेः । विद्याः मन्त्राः । इदं विद्यात्रयं मिळित्वा एकापूर्वजनकं, पौर्णमासयागत्रिकवत् , अग्रिममन्त्रेषु अथो इति प्रक्रमान्तरसत्त्वात् , तन्त्रान्तरेऽपि एतत्त्रयमिति समष्टिविनियोगदर्शनाच्च । तेनैकमन्त्रलोपे पुनस्त्रितयपाठः, न तावन्मात्रम् ॥ २८ ॥
चतुर्थ अमृतेशीमन्त्रमाह
अथो वाचं ब्लू झौमिति जूं सः इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मत्रः ॥ २९ ॥
वा चं ऐं । इ ति द्वयं चो क्त्वे ति च त्यक्त्वा शेषं मन्त्रस्वरूपम् । हे अमृते अस्मिन् द्रव्ये अमृतं सा व य इति तदर्थः । शेषाण्यमृते इत्यस्य विशेषणानि । तदर्थः स्पष्टः ॥ २९ ॥
ततः पञ्चमं मन्त्रमुद्धरति
वाग्भवो वदवद ततो वाग्वादिनि वाङ्मदनक्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुयुगळं मादनं