________________
१२८
परशुरामकल्पसूत्रम् तपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि । भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥ इति तिस्रोऽनुष्टुभो विद्याः ॥ २८ ॥
वेदभाष्ये वैदिकमन्त्राणां अर्थस्य विवृतत्वात् तान् परित्यज्य केवलतान्त्रिकसुबोधमन्त्राणां केषां चिदर्थ प्रकटयामि । अखण्डे ति— अखण्डेत्यादिमन्त्रत्रयं लिङ्गेन सुधादेवीप्रार्थनाङ्गं भवितुमर्हति । ततोऽपि बलवता अभिमन्त्रणोत्तरद्वितीयाश्रुत्या अभिमन्त्रणाङ्गम् । एतदनुसारेण परमानन्दतन्त्रे---" एतत्त्रयं त्रिबीजाब्यं चतुर्धा तत्र वै जपेत्' इत्यत्र स्पृशन् इत्यध्याहार्यम् । तथा च अभिमन्त्रणाङ्गत्वं सिद्धम् । एवं च परमानन्दटिप्पण्यां अखण्डेत्यादि सुधादेवीप्रार्थनारूपमिति लेख: प्रामादिक एव, लिङ्गाच्छ्रतिबाधस्य केनाप्यनङ्गीकारात् । अद्य मन्त्रार्थस्तु—अकुलं नाम सहस्रदलकमलद्वयम् । सर्वकमलानामाधारभूतं ऊर्ध्वमुखमेकं पद्मं मूलाधारस्याधस्तिष्ठति । तदेकं अकुळपदवाच्यम् । “ अकुळे विषुसंज्ञे च" इति योगिनीतन्त्रश्लोकव्याख्यानावसरे सर्वाधःस्थितसहस्रदळकमलोपर्यष्टदळं तदुपरि षड्दळं तदुपरि मूलाधारादिचक्राणि तत्र मूलाधाराधःस्थितं षड्दळं कुलपद्मं तदधःस्थिते अष्टदळसहस्रदळे अकुले इति सेतुबन्धलेखात् । एवं ब्रह्मरन्ध्रस्थिताधोमुखसहस्रच्छदपद्ममपि अकुलम् । तदुक्तं त्रिपुरार्णवे
सुषुम्नोर्ध्व सुधारश्मिकोटिकान्तिसमप्रभम् । अधोमुखं गुरुस्थानं सहस्रदळशोभितम् ।।
अकुलं तद्विजानीयात् . . . . . . इति । परमानन्दतन्त्रेऽपि
साधकः प्रातरुत्थाय ब्रह्मरन्ध्रे निजं गुरुम् ।
पूर्वोक्ताकुलपद्मान्तादशान्तसरोरुहे ॥ इति । एवं द्वयोः सहस्रच्छदयोरकुलवाच्यत्वे सिद्धे प्रकृते ब्रह्मरन्ध्रस्थस्यैव ग्रहणम् , तस्यैवामृतस्रावित्वात् । प्रकृते अकुलं यद्ब्रह्मरन्ध्रस्थकमलं तस्य नायिका तदधिष्ठात्री 1 प्रकटयति-अ.
चिन्त्यः-बर,