________________
तृतीयः खण्डः-श्रीक्रमः
१२७ आधारावयवोत्तरावयवमध्यवृत्तित्वं वस्तुनः संपाद्यते तद्वत् प्रथमं त्रितारी, पश्चाच्चतुर्नवतिमन्त्रेष्वेको मन्त्रः, ततो नम इति । एवं सति मन्त्रः द्वाभ्यां संपुटितो भवति । तेज स्त्रि त यं वह्निसूर्यसोमाः तेषां क लाः धूम्राचिरादिपूर्णामृतान्ताः श्यामाक्रमे वक्ष्यमाणा अष्टत्रिंशत् । मन्त्रस्वरूपं तु ऐं ह्रीं श्रीं धूम्रार्चिषे नमः । एवं अग्रेऽपि ज्ञेयम् । सृष्टिऋद्धीत्यत्र सन्ध्यभावः आर्षः । यद्वा--- "ऋत्यकः” इति पाक्षिकत्वादसन्धिः । शेषं स्पष्टम् । वह्निकलाः-- . १० । सूर्यकलाः-१२ । चन्द्रकलाः-१६ । ब्रह्मकलाः-१० । विष्णुकलाः-१० । रुद्रकलाः-१० । ईश्वरकलाः-४ । सदाशिवकलाः-१६ । इत्थं च कलाः सर्वाः-८८ । यद्यपि ह ५ स श्शु चिषत् इत्यारभ्य पुष्क र स्र जा इत्यन्तं सप्त ऋचः सन्ति, तथाऽपि ' इत्येते पञ्चमन्त्राः' इत्युक्त्या चतुर्थपञ्चमौ मिळित्वा एको मन्त्रः, षष्ठसप्तमौ मिळित्वा एको मन्त्रः । एकलिङ्गत्वादुक्तयोरेवैक्यं युक्तं, नत्वन्यत्र । मूल विद्या पञ्चदशी। पूर्वकलाः ८८, उक्तमन्त्राः पञ्च. मूलविद्या च, आहत्य सर्व मिलित्वा । चतुर्नवतिमन्त्राः संपद्यन्ते । एतैरभिमन्त्रणेन द्रव्यं संस्कुर्यादिति फलितोऽर्थः ॥ २६ ॥ __ अथ हैके पञ्चभिरखण्डायैरभिमन्त्रणमाम - नन्ति ॥ २७॥
अथे त्यनेन चतुर्नवतिमन्त्रोत्तरमेवेति क्रमविशेषः सूचितः । नात्र पाठक्रमः संभवति, स्वमताभावात् । अतः अथेत्यावश्यकम् । ह इति शब्दालङ्कारे । ए के इत्यनेन पाक्षिकत्वं सूचितम् । अखण्डः आ द्यः येषामिति तद्गणसंविज्ज्ञानबहुव्रीहिः ॥ २७ ॥
अखण्डाद्याः के ? इत्याकाङ्क्षायामाहअखण्डैकरसानन्दकरे परसुधाऽत्मनि । खच्छन्दस्फुरणामत्र निधेह्यकुलनायिके ॥ अकुलस्थामृताकारे शुद्धज्ञानकरे परे । अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥