________________
१२६
परशुरामकल्पसूत्रम् र्घा विष्णुकला दश । तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोगारी मृत्यवो रुद्रकला दश। पीता श्वेताऽरुणाऽसिताश्चतस्त्र ईश्वरकलाः। निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिकापरासूक्ष्मासूक्ष्मामृताज्ञानाज्ञानामृताप्यायिनीव्यापिनी - व्योमरूपाः षोडश सदाशिवकलाः ॥ हसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसवयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जारवासः समिन्धते । विष्णोर्यत् परमं पदम् ॥ विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु ते ॥ गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भ ते अश्विनौ देवावाधत्तां पुष्करस्रजा॥ इत्येते पञ्चमत्राः॥ मूलविद्या चाहत्य चतुर्नवतिमन्त्राः ॥ २६ ॥
त्रिता री पूर्वोक्ता । त्रितारी नम इत्यनयोर्मध्ये चतुर्नवतिमन्त्रान् पठेत् । तथा च द्वाभ्यां संपुटितो भवति । यथा लोके संपुटे करण्डे अन्तः किंचित् क्षित्वा