________________
१२५
तृतीयः खण्डः-श्रीक्रमः दत्तगन्धाक्षतपुष्पधूपदीपः तद्विनुभिः प्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत्स्पृष्ट्वा चतुर्नवतिमत्रान् जपेत् ॥ २५॥
तत्र प्रथमद्रव्ये पूर्वोक्तक्रमेण पूज यि त्वा । अकारादिविसर्गान्तषोडशस्वरैः पश्चिमादीशानान्तां एकां रेखां कुर्यात् । तत ईशानाद्यानेयान्तां कवर्गमारभ्य तान्तैः षोडशवर्णैः अपरां रेखां संपादयेत् । तत आग्नेयादिपश्चिमान्तां थादिसान्तैः षोडशभिः तृतीयरेखां संपादयेत् । एवं सति अश्च कश्च थश्च आदिर्येषां वर्णानां दीर्घाकारखकारदकारप्रभृतीनां तन्मयाः तदभिन्नाः रेखाः यस्मिन् त्रिकोणे तत् अ क था दिम यरे ख म् । इदं त्र्य श्र विशेषणम् । हश्च ळ क्ष युगं च तयोः अन्तः मध्ये स्थि तो यो हं सः इति वर्णसमुदायः तेन भा स्वरं-द्रव्ये स्वदक्षभागे हं इति विलिख्य तदुत्तरतो हंस इति वर्गों विलिख्य तदुत्तरतो ळक्षेति विलिखेत् । एवं चोक्तरूपं भवति । एवं वा का म श क्त यः बालाया वर्णत्रयम् । यद्वा—मूलकूटत्रयम् । प्रमाणं अर्थद्वयेऽपि पूर्वमेवोक्तम् । तद्युक्तानि कोणानि यस्मिंस्तत् । एतादृशविशेषणत्रयविशिष्टं त्रिकोणं वि लि ख्य । हं से न हंस इति मन्त्रेण आरा ध्य पुप्पादिभिः पूजयित्वा । ब हिः त्रिकोणात् वृत्तं षट्कोणं च कृत्वा। पड श्रं षट्कोणानि मूल षडङ्ग मन्त्रैः पुरोभागा दि स्वाभिमुखाग्रादिप्रादक्षिण्येन अभ्य > । मू ले न सप्त धा सप्तवारमावृत्तेन । तस्मिन् द्रव्ये दत्ताः अर्पिताः गन्धा क्ष त पुष्प धूप दी पाः येन ईदृशः पूजको भवेदिति विशिष्टविधौ दानममीषां कार्यमिति विशेषणविधिरार्थिकः । विद्या परसंवित् तन्मयं तदभिन्नं कृत्वा भावयित्वा । तत् प्रथमादिकम् । चतुर्नवतिमन्त्रान् वक्ष्यमाणान् ॥ २५ ॥
तान् मन्त्रानाह
त्रितारीनमस्संपुटिताः तेजस्त्रितयकळा अष्टत्रिंशत् । सृष्टिऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरास्थितिसिद्धयो ब्रह्मकला दश । जरा पालिनी शान्तिरीश्वरी रतिकामिके वरदा ह्लादिनी प्रीतिदी