________________
परशुरामकल्पसूत्रम्
बिन्दुहीनस्य कैमुतिकन्यायेन फलहेतुत्वस्तुत्या सबिन्दुः ऐकारो वाग्भव इति सिध्यति । नित्यारहस्ये- -" वाग्भवं प्रथमं देवि कामराजं द्वितीयकम् " इति बालामन्त्रोद्धाराच्च, “ रविस्वरो बिन्दुयुक्तो वाग्भवं बीजमीरितम् " इति बीजकोशाच्च । आधारं कीदृशं इत्याकाङ्क्षासत्त्वात् तन्त्रान्तरोक्तं त्रिपदादि ग्राह्यम् । पाव कीः वह्निसंबन्धिनीः कलाः चतुर्थ्यन्तनमोऽन्तैः तत्तन्नामभिः प्रागादिवृत्तरूपं यजेत्, 'प्रागादिवृत्तरूपेण " इति परमानन्दतन्त्रवचनात् । सेतुबन्धे भास्कररायास्तु पश्चिमादिप्रादक्षिण्येन इत्यूचुः ॥ २३ ॥
१२४
66
मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नम इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोममण्डलाय षोडशकलाऽऽत्मने अर्ध्यामृताय नमः इति पूरयित्वा आदिमं दत्वोपादिममध्यमौ पूजयित्वा विधोः कलाषोडशकम् ॥ २४ ॥
17
मदनस्तु चतुरासनन्यासे प्रपञ्चितः । शेषं स्पष्टम् । संस्पृश्यं त्यस्मात् पूर्वं तत्रेत्यादिः । तत्र पात्रे सौरीः कलाः तपिन्यादी : संस्पृश्य पूजयित्वा । यद्यपि स्पृशिधातोः न पूजनमर्थ:, तथाऽपि 'संपूज्य पावकीः कलाः', 'पूजयित्वा विधोः कला :' इति वाक्यमध्यवृत्तित्वात्, " तत्र पात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ' इति योगिनीतन्त्रवचनाच्च पूजायामेव तात्पर्यं कल्प्यम् । आदि मं प्रथमं पूरयित्वा उपादि मं द्वितीयं मध्य मं तृतीयं, इदं चतुर्थपञ्चमयोरप्युपलक्षणम् । सिद्धान्तग्रन्थे प्रथमखण्डे “ पञ्च मकाराः तैरर्चनं गुप्त्या " इत्युक्तम् । तत्रैव दत्वा स्थापयित्वा । विधोः क ळा षोडश कँ अमृतादिपूर्णामृतान्तम् ॥ २४ ॥
तत्र विलिख्य त्र्यश्रमकथादिमयरेखं हळक्षयुगान्तस्थितहंसभास्वरं वाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणं कृत्वा षडनं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधा अभिमन्त्रय