________________
१२३
तृतीयः खण्डः-श्रीक्रमः प्रोक्षणसाधनं बिन्दुत्रयमेवेति प्राप्तं न्यायं बाधितुं स मित्युपसर्गः । तथा च, यथा पूजोपकरणानि जलेन सम्यक् सिक्तानि तथा प्रोक्षयेदित्यर्थः ॥ २२ ॥
विशेषार्थ्यविधिः (अर्घ्यशोधनम्) एवं सामान्या'व्यैः तृप्तिं विधाय विशेषात्तृिप्तिमाह
तज्जलेन त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा मध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या षडश्रं संपूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधाराय नम इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः ॥ २३ ॥
तज्ज ले न सामान्यार्योदकेन । शेषं पूर्ववत् । म ध्यं त्रिकोणमध्यं, वि द्य या समष्टिविद्यया, सं पूज्ये ति सर्वत्रानुषज्यते । विद्या ख ण्डैः कूटत्रयेण त्रि को त्रिकोणकोणत्रयम् । अस्योपपत्तिर्दर्शिता प्राक् । बी जा वृ त्त्या कूटत्रयद्विरावृत्त्या । कूटस्य बीजरूपत्वं श्रीषोडशाक्षर्याः षोडशार्णत्वोपपत्तये एकैककूटस्यैकैकबीजरूपत्वं इनि सप्रमाणं वरिवस्यारहस्ये अस्मत्परमेष्ठिगुरुभिः प्रपञ्चितम् । ग्रन्थविस्तरभयान्नेह लिख्यते । क्रमस्यानुक्तत्वात् प्रागादिप्रादक्षिण्येन स्वाग्रादिप्रादक्षिण्येन वा । नमोऽन्तो मन्त्रः, “ नमोऽन्तैः पादुकाऽन्तैर्वा " इति योगिनीतन्त्रवचनात् । वा चं ऐं इति । तदुक्तं देवीभागवते
वाग्भवं कामराजं च मायाबीजं तृतीयकम् ।
चित्ते यस्य भवेत्तं तु न कश्चिद्बाधितुं क्षमः ॥ इत्युपक्रम्य वाग्भवं प्रथमबीजं स्तोतुं कथामुपक्रम्य
ऐ ऐ इति भयार्तेन दृष्टा व्याघ्रादिकं वने ।
बिन्दुहीनमपि प्रोक्तं वाञ्छितं प्रददौ किल ॥ इति ॥ । योत्पत्तिं विधाय विशेषार्थ्यविधिमाह-ब, ब२. 'बीजद्विरावृत्त्या-ग.