________________
१२२
परशुरामकल्पसूत्रम् विधिरूपत्वात् आकाङ्क्षावत्त्वात् श्यामाक्रमोक्तमत्स्यमुद्रया निर्गमनरीत्या कृत्वा पुष्पै र भ्य य॑ । सा धा र मित्यस्य तत्रेत्यादिः ॥
आधारशङ्खयोः प्रतिष्ठापने शुद्धजलपूरणे च मन्त्राकांक्षायां सन्निहितत्वाविशेषात् गणपतिप्रकरणस्थं श्यामाप्रकरणस्थं वेच्छया ग्राह्यम् । न तु आधारादिषु पावकादिकळापूजनं, अनुक्तत्वात् असूचितत्वात् अत्रानाकाीक्षतत्वाच्च । वस्तुतस्तुश्यामागणपत्यपेक्षया श्रीविद्याप्रकरणस्थविशेषार्घ्यपात्राधारादिमन्त्राणां सन्निहितत्वात् त एव ग्राह्याः । तत्रापि यावदाकाीक्षतं ग्राह्याम् , न त्वनाकाीक्षतम् “ पयसा मैत्रावरुणं श्रीणाति" इतिवत् ॥
आ दिम बिन्दु संयोगः शङ्खजलसंस्कारः । बिन्दुमित्यत्र विधेयगतसङ्ख्या विवक्षिता । तेन बिन्दुद्वयदानेन नादृष्टोत्पत्तिः । न च बिन्दुमित्यत्र द्वितीयाविभक्तिश्रवणात् स एवोद्देश्यः किं न स्यादिति वाच्यम् । संस्कृतबिन्दोः विनियोगाकाङ्क्षायां विनियोगाश्रवणात् न बिन्दुसंस्कारः। किं तु जलसंस्कारः, जलस्याग्रे विनियोगश्रवणात् । तथा च संस्कार्यस्यैवोद्देश्यत्वनियमात् बिन्दुर्विधेयः । तद्गतसङ्ख्या विवक्षितैव । षडङ्गेन षडङ्गमन्त्रैः अग्नीशासुरवायुकोणेषु षडङ्गदेवता अभ्यर्च्य । अङ्गेनेत्यत्र एकवचनमार्ष, बहुत्वलक्षकं वा पाशाधिकरणन्यायेन, षण्मन्त्रेषु एकत्वान्वयासंभवात् ॥
वस्तुतस्तु—अङ्गमन्त्रवृत्तिसङ्ख्यायाः षट्पदेनैव बोधितत्वाद्वचनार्थोऽविवक्षित एव । तथा च औत्सर्गिकमेकवचनमेव युक्तम् । न च विशेषणवाचकषट्पदसमानवचनकत्वहानिरिति वाच्यम् , षट्पदेन साकं समासाङ्गीकारेण अनुपपत्त्यभावात् । अनेनापि जलसंस्कार एव ॥
यद्वा—षडङ्गमन्त्रैः षडङ्गदेवताः तस्मिन्नेव शङ्खोदके कूटत्रयद्विरावृत्त्या क्रमेण हृदयाय नमः हृदयशक्तिश्रीपादुकां तर्पयामीत्यादिमन्त्रस्तर्पयेत् । न च अभ्यय॒त्यस्य तर्पणार्थत्वे किं मानं इति वाच्यम् । “ तर्पयेत्तत्र योगिनीः" इति वामकेश्वरतन्त्रात् , योगिनीपदस्य त्रिपुरसुन्दर्याः षडङ्गदेवता इति सेतुबन्धे व्याख्यानात् ॥
विद्य या पञ्चदश्या अभि मन्त्र्य अभिमन्त्रणेन संस्कृत्य, त ज लं संस्कृतजलं, तस्य ये 'विपुषः बिन्दवः तैः आत्मानं स्वशरीरं पूजो प क र णा नि गन्धपुष्पप्रथमादीनि च संप्रो क्ष्य । अत्र कपिञ्जलाधिकरणन्यायेन वि ड्भिरित्यनेन