________________
तृतीयः खण्ड:-श्रीक्रमः
१२१ शेष स्पष्टम् । हसलवर्णेषु व्यञ्जनमात्रग्रहणं पूर्ववत् । यः आदिः यस्य चतुष्कस्य इति तद्गुणसंविज्ञानबहुव्रीहिः । इत्थंच यं रं लं वं इति । शा दि षट्क मित्यत्रापि समासः पूर्ववत् ॥ २०॥
मूलमन्वन्यासः एवं वशिन्यादियोगिनीन्यासमुक्त्वा मूलमन्त्रन्यासादीन् वदति
मूलविद्यापञ्चदशवर्णान् मूर्ध्नि मूले हृदि चक्षुस्त्रितये श्रुतिद्वयमुखभुजयुगळपृष्ठजानुयुगळनाभिषु विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥२१॥
च क्षु स्त्रि त यं भ्रमध्येन सह ज्ञेयम् । श्रति द्वयं श्रोत्रद्वयम् । शेषस्थानानि स्पष्टानि । मूल पञ्च द श वर्णैः बिन्दुसहितैः नमोऽन्तैः क्रमेणोक्तपञ्चदशस्थानेषु न्यसेत् । षो ढा षट्प्रकारः, गणेश-ग्रह-नक्षत्र-योगिनी-राशि-पीठभेदेन चक्रन्यासस्तन्त्रान्तरोक्तः । न्य स्या न्य स्य इत्यनेन कृताकृतत्वं सूचितम् ॥ २१ ॥
पात्रासादनम् , सामान्याय॑विधानम् एवं देवीरूपत्वसिद्धये न्यासानुक्त्वा ततोऽर्चनाङ्गभूतपात्रस्थापनविधिमुपदिशति--
शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा पुष्पैरभ्यर्च्य साधारं शङ्ख'प्रतिष्ठाप्य शुद्धजलमापूर्य आदिमबिन्दुं दत्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्य तज्जलविघुड़ीभः आत्मानं पूजोपकरणानि च संप्रोक्ष्य ॥ २२ ॥
शुद्धा म्भ सा इत्यनेन गणपतिपद्धतौ कथितगन्धाक्षतकुसुमसमर्चितत्वं ज्ञापितम् । शुद्धेन पटपूतेनाम्भसा । स्व वा म भागे त्रिकोणादिचतुरश्रान्तं नियम
। संस्थाप्य–श्री.
16