________________
परशुरामकल्पसूत्रम् कलह्रीं च निगद्य कामेश्वरीवाग्देवतायै नमः इति ।
ललाटे चुं गदित्वा न्ठली मोदिनीवाग्देवतायै नम . इति भ्रूमध्ये टुं भणित्वा ग्लूं विमलावाग्देवतायै नम ; इति कण्ठे तुं च प्रोच्य ज्नी अरुणावाग्देवतायै
नम इति हृदि पुं च हरव्यूं उच्चार्य जयिनीवाग्देवतायै नम इति नाभौ यादिचतुष्कं इम्यूं उच्चार्य सर्वेश्वरीवाग्देवतायै नम इति लिङ्गे, शादिषट्कं धनं आख्याय कौळिनीवाग्देवतायै
नम इति मूले ॥ २०॥ १ . स बिन्दू न चो बिन्दुयुक्ताः अकारादिविसर्गान्ताः तानुच्चार्य नम इत्यन्तो वशिनीमन्त्रः । तथा च अं आं . . . अं अः ब्लू वशिनीवाग्देवतायै नमः इति शिरसि न्यसेत् । नन्वेवं सर्वेषु बिन्दुयोगकथनादन्यत्र नेत्यत आह—सर्वत्रेति । स्पष्टोऽर्थः । क वर्ग मिति । कवर्गः प्रसिद्धः सबिन्दुः । कलहीं इत्यत्र केवलव्यञ्जनमात्रग्रहणम् । “ समुदायेषु विद्यमाना वर्णाः तदवयवेषु दृश्यन्ते” इति न्यायात् । गृहीतश्चायं पक्षः सेतुबन्धे श्रीभास्कररायैः “अधस्तान्नाभसं बीजं" इत्यस्य व्याख्यानावसरे “नाभसो हंससमुदायः तदेकदेशः केवलहकार एव ग्राह्यः" इति व्याख्यानपङ्क्तौ । अत्रापि तथा ग्रहणे बीजं " त्रयोविंशदक्षरोऽसौ कामेश्वरीमन्त्रः" इति सेतुबन्धलेख एव । ककारलकारयोरवर्णविशिष्टयोHहणे द्वितारीयुक्तपादुकां पूजयामीति घटिते ह्रीं श्रीं कं क्ल्ह्रीं कामेश्वरीवाग्देवताकामेश्वरीपादुकां पूजयामीति मन्त्रे पञ्चविंशतिवर्णत्वात् । तस्मात् केवलव्यञ्जनमात्रग्रहणम् । व्यञ्जनानां न वर्णत्वमिति विस्तार उक्तो वरिवस्यारहस्ये पञ्चदशीवर्णपरिगणने । तथा च कं खं गं घं डं क्ल्हीं कामेश्वरीवाग्देवतायै नमः इति ललाटे न्यसेत् । चुं चवर्ग—चुमित्यस्योदित्त्वात् तेन सवर्णग्रहणशास्त्रस्य “ अणुदित्सवर्णस्य चाप्रत्ययः" इति शास्त्रस्य सत्त्वात् चवर्गग्रहणम् । चवर्ग नमइत्यन्तं मन्त्रं पठित्वा भ्रूमध्ये न्यसेत् । टुं टवर्ग. पूर्ववत् ।