________________
तृतीयः खण्डः-श्रीक्रमः
११९ देवीभागवते-" शिवमायाऽमिबिन्दुमान् !' इतिवचनात् । शिवो हकारः । माया ईकारः । अग्निः रेफ: । बिन्दुः प्रसिद्धः । एषां योगे ह्रीमिति भवति, “ भुवनेशी च लज्जा च हृल्लेखा कुलदेवता” इति कोशात् । प्रकृतेऽपि स एव मदनो व्याख्यातः । तथा च ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः इति तृतीयो मन्त्रः । एवं त्रि भिम न्त्रैः . क्रमेण च क्र मन्त्र दे व ताऽऽस ना नि च के कल्पयित्वा । अयं चतुरासनन्यास इति कथ्यते ॥ १८ ॥ .
बालाषडङ्गन्यासः .. . ततः बालाषडङ्गमाह'बालाद्विरावृत्त्या त्रिद्वयेकदशत्रिद्विसङ्ख्याऽङ्गुळिविन्यासैः कृप्तषडङ्गः ॥ १९ ॥
बाला द्विरा वृत्त्या षड्वर्णैः हृदयादिषडङ्गानि क्रमेण त्र्या द्यङ्गु लि भिः कुप्ता नि विन्यस्तानि प ड ङ्गा नि येन ईदृशः । अयमेवार्थः स्पष्टमुक्तो दक्षिणामूर्तिसंहितायाम् ---
कनिष्ठाङ्गुष्ठरहितैः त्रिभिस्तु हृदि विन्यसेत् । मध्यमानामिकाभ्यां तु न्यसेच्छिरसि मन्त्रवित् ।। शिखाऽङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् ।
हृदुक्तैर्नेत्रविन्यासं विन्यसेत् परमेश्वरि ॥ . ... तर्जनीमध्यमाभ्यां तु ततोऽस्त्रं विन्यसेत् प्रिये ॥ इति ॥ इति बालाषडङ्गन्यासः ॥ १९ ॥
वशिन्यादियोगिनीन्यासः ___ अथ वशिन्यादियोगिनीन्यासमाह___ सबिन्दूनचो ब्लूमुच्चार्य वशिनीवाग्देवतायै नम इति शिरसि । सर्वत्र वर्गाणां बिन्दुयोगः । कवर्ग