________________
११८
परशुरामकल्पसूत्रम्
शक्तिः सौरिति, “ शक्तिः परा तृतीया च " इति कोशात् । यद्यपि कामशक्तिपदेन त्रिपुरागायत्रीवत् पञ्चदशीद्वितीयतृतीयकूटग्रहणमपि ग्रहीतुं शक्यते, तदर्थेऽपि प्रमाणस्य दर्शितत्वात् । तथाऽपि
मादनं 'शक्तिसंयुक्तं चतुर्थस्वरसंयुतम् ।
ऊर्ध्वे मध्येन्दुबिन्द्वाढ्यं कामराजं समुद्धृतम् । शान्तान्तं कादिसंयुक्तमैकारान्तान्तयोजितम् ॥
इति योगिनीतन्त्रे एतन्मन्त्रोद्धारादयमेवार्थः । मादनं ककारः । ' शक्तिः लकारः । चतुर्थस्वरः ईकारः । शान्तान्तं सकारः । कादिर्विसर्गः । ऐकारान्तान्तमौकारः । उच्चा र्ये ति त्यक्त्वा न मो न्तो मनुः । इत्थं च ह्रीं क्लीं सौः देव्यात्मासनाय नमः इति मन्त्रेण स्वस्यासनं दत्वे ति, आसने पुष्पाक्षतान् क्षिपेत् ॥ १७ ॥ ततः सूत्रद्वयेन चक्रासनादिमन्त्रानुद्धरति-—
शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमः शिवभृगुयुग्बालामुच्चार्य सर्वमत्रासनाय नमो भुवनाम - दनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नम इति चक्रमत्रदेवताऽऽसनं त्रिभिर्मत्रैश्च कृत्वा ॥ १८ ॥
शिवो हकारः, हरिशवो गगनं प्राणः " इति कोशात् । तेन युक्ता बाला । अत्र बालापदेन बालावर्ण:, तेन बालावर्णमुद्दिश्य हवर्णयोगो विधीयते । तथा च बालावर्णाङ्गं हकार इति सिद्धम् । एवं च " प्रतिप्रधानमङ्गावृत्तिः " इति न्यायात् वर्णत्रयेऽपि हकारयोगः । तत्रापि स्वरान्ते व्यञ्जनस्यादृष्टत्वादादावेव योज्यम् । इत्थं हैं क्लीं ह्सौः श्रीचक्रासनाय नमः इत्येको मन्त्रः । शि व भृ गु यु क्—शिवो हकारः, भृगुः सकारः, सकाराधिकारे " जगद्बीजं शक्तिनामा सोऽहं वेगवती भृगुः ' इति नन्दनकोशात् । एतदुभययुक्ता बाला हसैं ह्स्क्लीं ह्स्सौः सर्वमन्त्रासनाय नमः इति द्वितीयो मन्त्रः । भुवना भुवनेश्वरी, तस्या मन्त्रो मायाबीजरूप एवोद्धृतः,
1 शकसं— ब२.
2 शक्रः - ब२.
3 हंस: ब२.
66