________________
११७
तृतीयः खण्ड:-श्रीक्रमः श्री क ण्ठः शिवः अकारः योगिनीतन्त्रे पञ्चदश्यां श्रीकण्ठदशकमित्यवर्णगणनात् । अनन्तः दीर्घाकारः, तन्त्रसारे आं ह्रीं क्रों इति मन्त्रस्य “ अनन्तो बिन्दुसंयुक्तो मायाब्रह्माग्नितारवान्" इत्युद्धारात् । बिन्दु यु जौ च तौ श्री क ण्ठा नन्तौ चेति समासः । तार्ती यः बालातृतीयः सौः इति । एवं च अं आं सौः अनेन मन्त्रेण मध्य मा मारभ्य तल पर्यन्तं कृता क र शुद्धिः येन । मध्यमाऽनामाकनिष्ठाङ्गुष्ठतर्जनीकरतलकरपृष्ठेषु न्यसेदित्यर्थः । अयं करशुद्धिन्यासः ॥ १५ ॥
आत्मरक्षान्यासः
आत्मरक्षान्यासमाह
कुमारीमुच्चार्य महात्रिपुरसुन्दरीपद'मात्मानं रक्ष रक्षेति हृदये अञ्जलिं दत्वा ॥ १६ ॥
कु मारी बालां उच्चार्य पद मिति वर्णद्वयमपहाय रक्ष र क्षे त्य न्तं पठन् हृ द ये अञ्ज लिं दद्यात् । अयमात्मरक्षान्यासः ॥ १६ ॥
चतुरासनन्यासः चतुरासनन्यासमाह
मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नम इति खस्यासनं दत्वा ॥ १७ ॥
माया ही इति स्पष्टं बहुस्थले प्रसिद्धम् । कामः क्लीमिति । तदुक्तं देवीभागवते
क्लीबेति मुनिपुत्रस्तमाजुहाव तदन्तिके । सुदर्शनस्तु तच्छ्रुत्वा दधाराद्याक्षरं स्फुटम् ॥ अनुस्वारयुतं तच्च प्रोवाच च पुनःपुनः ।।
बीजं वै कामराजाख्यं गृहीतं मनसा तदा ॥ इति ॥ 'ममृतचैतन्यमात्मानं–त.