SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११६ परशुरामकल्पसूत्रम् प्राणायामः ततः प्राणायामविधिमाह त्रिः प्राणानायम्य ॥ १३ ॥ प्राणा या म स्तु श्यामाप्रकरणे वक्ष्यमाणप्रकारेण ज्ञेयः ॥ १३ ॥ विघ्नकरभूतोत्सारणम् , वकवचन्यासश्च तदुत्तरं विघ्नकृद्भूतोत्सारणं कार्यमिति तदाह अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः। ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । इति वामपादपाणिघातकरास्फोटसमुदञ्चितवस्तालत्रयं दत्वा देव्यहंभावयुक्तः स्वशरीरे वज्रकवचन्यासजालं विदधीत ॥ १४ ॥ अपसर्प न्तु इति मन्त्रेण पार्ष्या पादपृष्ठभागेन भुवो घा तः ताडनं, क र योः आ स्फोटः संघर्षः, स मुद ञ्चितं तिर्यकृतं वक्त्रं मुखं, एभिः सहेति शेषः । ताल त्रयं अधोमुखाभ्यां दक्षमध्यमातर्जनीभ्यां वामकरतले सशब्द त्रिरभिघातः, तं दत्वा उत्पाद्य । अहं उपास्य देव्य भिन्न इति भावयित्वा । स्व शरीरे इत्यनेन देवताशरीरव्यावृत्तिः । वज्र क व चं अभेद्यकवचरूपं न्या स जालं न्याससमूहं वक्ष्यमाणं विदधीत कुर्यात् ॥ १४ ॥ करशुद्धिन्यासः किं तन्यासजालं इत्याकांक्षायां आदौ करशुद्धिन्यासमाह बिन्दुयुक्श्रीकण्ठानन्ततार्तीयैः मध्यमादितल- . पर्यन्तं कृतकरशुद्धिः ॥ १५ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy