________________
११५
तृतीयः खण्डः-श्रीक्रमः ___ इत्यर्थः । पार्श्वद्वयनियमो दृष्टार्थः । चक्रं नवचक्रात्मकं समष्टिचक्रं मूले न पञ्चदश्या
अभ्य 7 । अत्र पुष्पाक्षतक्षेपणमेवाभ्यर्चनम् । त्रिख ण्डैः वाग्भवकामराजशक्तिभिः प्रथमं चक्रनिर्माणसमये प्रथमस्य चक्रस्य त्री णि या न्य श्रा णि तानि द्विगुत्वादेकवद्भावः । न बहुव्रीहिः । तत्पक्षे त्रिकोणात्मकैकचक्रे एकदेशे पूजने मन्त्रत्रयस्यानाकांक्षितत्वात् “भगो वां विभजतु" इतिवद्विकल्पापत्तेः । न च " चतुर्भिरभ्रिमादत्ते" इतिवत् समुच्चयोऽस्त्विति वाच्यम् ; तथाऽपि बहुव्रीहिपक्षे अन्यपदार्थे लक्षणाकल्पनं दोषः । द्विगुपक्षे तु कोणत्रये कूटत्रयं युक्तम् । अभ्यर्च्य इत्यस्य पूर्वस्मादनुवृत्तिः । क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्यन ॥ ११ ॥
आत्मशुद्धिहेतु शोषणादि ततः शोषणादीनात्मशुद्धिहेतूनाह
वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं संदहनमाप्लावनं च विधाय ॥ १२ ॥ ___ वायुवर्ण:-~-यं, अग्निवर्णः-रं, सलिलवर्णः--वं । वायौ शोषकताशक्तिः लोकप्रसिद्धा । अतस्तद्वर्णेऽपि साऽस्ति । अतः तेन शोषणं जलांशनाशनं, एवमेव अग्निवर्णेन सं द ह नं भस्मीकरणं, तथैव तद्भस्मनः उदकवर्णेन पिण्डीकरणं आ प्ला व नं, विधा य कृत्वा । चकारात् तन्त्रान्तरोक्तं श्यामाप्रकरणस्थं वा ,लं इति पार्थिवबीजेन काठिन्यसंपादनं शांभवशरीरोत्पत्तिश्च ग्राह्या । यद्वा--समीपवृत्तित्वात् श्यामाप्रकरणस्थमेव ग्राह्यम् । शोषणादिक्रियाणां कर्माकाङ्क्षायां दृश्यमानं स्थूलशरीरं लिङ्गशरीरं वा कर्म तन्त्रान्तरप्रसिद्धं ग्राह्यम् । वर्ण यु क्या णा या मै रित्युक्त्या यमित्युच्चरन् प्राणानातमितोर्नियच्छेत् , ततः शरीरशोषणं भावयेत् , यश्च श्यामाप्रकरणे "वायुं पिङ्गळया आकृष्य” इत्यभ्यासः कृतः तस्यार्थस्य प्राणायामैरित्यनेन ज्ञापितत्वात् । एवमेवाग्रेऽपि ॥
__यत्तु निबन्धे सङ्कोचशरीरं शोषयदित्यादिवाराहीप्रकरणस्था मन्त्रा लिखिताः ते निर्मूला हेयाः, असूत्रितत्वात् । परं तु श्यामाप्रकरणस्थं कठिनत्वसंपादनं शांभवशरीरोत्पत्तिः 'चकारसूचितार्थापत्तिप्रमाणसिद्धा अनुष्ठेया ॥ १२ ॥ .
1 सूत्रकार--श्री.