________________
११४
षस्य पक्षाधः स्थितरोममालाऽऽकृतिसूक्ष्मपक्षाः महाराष्ट्रभाषायां परा इति प्रसिद्धम् । म होपधानं महाराष्ट्रभाषायां लोड्डु इति प्रसिद्धम् । कौ सुंभा स्त र णं रक्तवर्णे तल्पोपरि तन्मालिन्याभावार्थं सूक्ष्मं वस्त्रं पात्यते । तत् महाराष्ट्रभाषायां पलंगपूस इति प्रसिद्धम् । वि ता नं ऊर्ध्वदेशान्मृत्तिकादिपातप्रतिबन्धकमुपरि बध्यमानं वस्त्रम् । यवनिका महाराष्ट्रभाषायां पडदा इति प्रसिद्धम् । शेषं प्रसिद्धम् । एवं चतुर्थ्यन्तैः सर्वैः न म इति योगः, 1 ते अमेयाशया " इतिवत् । एतैः चतुश्चत्वारिंश न्मन्त्रैः मन्त्रवाच्यानर्थान् आदौ श्रीचक्रे परिभाव्य तेषां पूजनं कुर्यात् । एकस्य ध्यानं ततोऽर्चनं, ततोऽपरस्य ध्यानं ततः तस्यार्चनमिति क्रमः तत्तदिति पदस्वारस्यात् लब्धः । अन्यथा न्यायतः पदार्थानुसमयेन ध्यानं पूजनं च प्राप्तं, ततदिति वीप्सया तद्वाधो ज्ञेयः ॥ १० ॥
66 या
दीपदानं चक्राभ्यर्चनं च
परशुरामकल्पसूत्रम्
गन्धपुष्पादिस्थापनस्थानादिकमाह
गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपानभितो दत्वा मूलेन चक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यभ्रे ॥ ११ ॥
अक्षता दीत्यत्र आदिपदेन प्रथमद्वितीयादिग्रहणम् । एतस्य दत्वे त्यनेनान्वयः । तत्र दानं न यत्किंचिद्देवतोद्देशेन त्यागः । किंतु " यज्ञायुधानि संभरति " इतिवत् पूजासामग्र्याः एकत्र संपादनम् । एतस्य फलं तत्तदर्पणवेळायां तस्य तस्य शीघ्रलाभः । दीपा नामभितः पार्श्वद्वये दानं स्थापनमदृष्टार्थम् । दत्वेत्यस्य च कारण आवृत्तिर्ज्ञापिता, प्रत्युद्देश्यं वाक्यपरिसमाप्त्यर्थमावृत्तेरावश्यकत्वात् । अतो न ददातेरर्थभेदो दोषजनकः । नच दाधातोरयमर्थः केन प्रमाणेनेति वाच्यम्, रजकस्य वस्त्रं ददाति, संवाहकस्य चरणौ ददाति शत्रवे भयं ददाति, इत्यादौ योग्यतथा अर्थकल्पनावत् अत्रापि योग्यार्थकल्पनात् । अभित इत्यनेन एकस्मिन् पार्श्वे यावन्तो दीपाः तावन्त एव अपरपार्श्व इति ज्ञाप्यते । अस्य फलं अन्धकारनिवृत्तिः । एतेन पूजागृहे अन्धकारसामान्याभावः कार्य इत्यर्थः । एकस्मिन् पार्श्वे अधिकदीपस्थापने तत्पृष्ठतः तच्छायारूपान्धकारः पतिष्यति । अभितस्तुल्यप्रज्वालने न कुत्राप्यन्धकार