________________
१५२
परशुरामकल्पसूत्रम्
दक्षिणवामाचारविवेकः अजितेन्द्रियैः कुलमार्ग प्रविश्य केवलोदकादिना पूजा कार्या । अयं दक्षिणो मार्गः । जितेन्द्रियैः प्रोक्तद्रव्येण सपर्याऽनुष्ठेया। अयं वामाचार इति कश्चित् । तत्तुच्छम् , वामाचारपदार्थस्यैव तेनाज्ञातत्वात् । तथा च त्रिकूटारहस्ये --
वामाचारं प्रवक्ष्यामि श्रीविद्यासाधनं प्रिये । यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाक् भवेत् ॥ माला नृदन्तसंभूता पात्रं मानुषमुण्डकम् ।
आसनं सिंहचर्मादि कङ्कणं स्त्रीकचोद्भवम् ॥ इत्याद्युपक्रम्य विस्तरेण वर्णितम् । तन्मध्ये मुख्यद्रव्यनामापि नास्ति । तद्विस्तरस्तु “ सव्यापसव्यमार्गस्था" इति ललितानामव्याख्यानावसरे अस्मत्परमेष्ठिगुरुभिः विस्तरेण प्रपञ्चितः । विशेषजिज्ञासुभिः ततोऽवगन्तव्यम् । तथा कालिकापुराणादपि । ग्रन्थविस्तरभयान्नेह तनोमि ॥
अजितेन्द्रियस्य कौलमार्गे अनधिकारः यदपि परमानन्दतन्त्र टिप्पण्यां अजितेन्द्रियाणां गन्धोदकेन पूजनमुक्तम् ; तदसत् , “ मुख्यालाभे चानुकल्पो नान्यथा तु कदाचन" इति परमानन्दतन्त्रे विंशोल्लासवचनविरोधात्, मुख्येऽनधिकृतस्य प्रतिनिधावधिकारस्य शशविषाणतुल्यत्वात् । तस्मादजितेन्द्रियाणां आपाततः उपासनेच्छायां अन्यमार्गेण अन्यदेवतोपासनं कृत्वा तेन परिपक्वान्तःकरणं दृढं विदित्वा पश्चात् कौळमाश्रयेत् । तदुक्तं कुलसारे
अन्यासां देवतानां तु भूयोभूयो निषेवणात् । परिपक्वमनाः कौले लब्धप्रामाण्यको नरः ।
बाह्येन्द्रियाणि संयम्य प्रविशेदत्र नेतरः ॥ इति ।। ब्रह्माण्डपुराणेऽपि-.
यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु । तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।