________________
तृतीयः खण्डः-श्रीक्रमः
१११
समष्टयेकरूपत्वं ज्ञापितम् । म हा चक्ररा जं--चक्रराजमिति श्रीचक्रस्य नाम, तत्र महत्त्वं पूज्यत्वं, " मह पूजायां" इत्यनुशासनात् । तथा च ब्रह्मविष्णुरुद्रादिसकलपूज्यमित्यर्थः । सिन्दूरं प्रसिद्धं, कुङ्कुमं काश्मीरं, एतदन्यतरेण । यद्वाद्वन्द्वसमासेन साहित्यप्रतीतेः सिन्दूरसहितकुङ्कुमेन लि खि त म् ॥ ___नव्यास्तु—यदा भूमौ प्रस्तारो लिख्यते तदा कुङ्कुमरजोभिः पूरणं, मेरुप्रस्तारश्चेत् सिन्दूररजोभिरिति व्यवस्थामाहुः । तत्र मूलं चिन्त्यम् ॥
लेखनप्रकारस्य अस्मत्परमेष्ठिगुरुकृतसेतुबन्धे सविस्तरमुक्तत्वान्नात्र लिख्यते । एतावत्पर्यन्तं पूजासमये नित्ययन्त्र निर्माणप्रकारः उक्तः । इदानीं सिद्धयन्त्रेऽपि पूजाप्रकारं यन्त्रनिर्माणद्रव्यनियमं चाह--चा मी क रे त्या दि ना । चा मी करं सुवर्ण क ल धौ तं रौप्यम् । यद्यपि कलधौतपदं सुवर्णवाचकमपि भवति । “कलधौतं रौप्यहेम्नोः" इति कोशात् , तथाऽपि सुवर्णम्य पूर्वमुक्तत्वाद्रौप्यमेव । पञ्च लो हं, तल्लक्षणमुक्तं तन्त्रसारे बृहत्पाञ्चरात्रे च
रौप्यं नृपगुणं प्रोक्तं दिक्संख्यो हेमभागकः । तानं द्वादशभागः स्याल्लोहभागस्य पञ्चकम् ।
आरकूटस्य षड्भागाः पञ्चलोहं प्रकीर्तितम् ॥ इति ।। आरकूटं पित्तलं, शेषं म्पष्टम् । रत्ना नि मरकतादीनि, तेषु उत्कीर्ण पूर्वोक्तशास्त्रेण निर्मितम् । आ दि पदात् ताम्रदृषदादिकं परमानन्दतन्त्रोक्तं ग्राह्यम् । इदमपि पूर्वोक्तचक्रराजे विशेषणम् । ईदृशं चक्रराजं पुरतो नि वे श्य ॥
अत्र पूजनं मुख्यम् । एतम्यालाभे तन्त्रान्तरोक्तप्रतिनिधिस्वीकारोऽपि कार्यः । तदुक्तं परमानन्द्रतन्त्रे--
आदर्श चैकगुणितं पुस्तके द्विगुणं फलम् । प्रतिमायां चतुर्धा स्यात् सालग्रामेषु षोडश ॥ शिवनाभे शतगुणं पूजनात् पुरुषार्थकम् । सहस्रधा नार्मदे तु फलं देवि प्रचक्षते ॥ कुण्डल्यां लक्षगुणितं देवतादर्शनं भवेत् । चक्रराजे तु या पूजा साऽनन्तफलदायिनी ॥ इति ॥