________________
११२
परशुरामकल्पसूत्रम् इमानि तु पठितक्रमे उत्तरोत्तराभावे पूर्वपूर्व ग्राह्यम् । एतादृशार्थतात्पर्यग्राहकमेव फलतारतम्यश्रवणम् । कुण्डली शेषकुण्डली । पुस्तकं कुलशास्त्रपुस्तकम् । प्रतिमा ध्यानश्लोकस्थाकारा । शेषं स्पष्टम् ॥
यन्त्रप्रतिष्ठा सूत्रे अनुक्तत्वात् न कर्तव्या सूत्रानुयायिभिः । एवं प्राणप्रतिष्ठाऽपि न कार्या सूत्रानुयायिभिः, अनुक्तत्वात् अनाकाक्षितत्वाच्च । वस्तुतस्तुयन्त्रप्रतिष्ठायाः पूजाप्रयोगबहिर्भूतत्वात् अधिकाभ्युदयेच्छायां तन्त्रान्तरोक्तमनुठेयं, यथा सहस्रनामपाठादि । तत्करणे अभ्युदयः अकरणेऽपि न हानिः सूत्रानुयायिनाम् । यथा वा यज्ञोपवीतसंस्कारो बौधायनसूत्रे पठितः । अन्यसूत्रापठितत्वात् " बह्वल्पं वा" इति सूत्रात् अननुष्ठाने न हानिरिति द्रविडान्ध्रदेशीयाः यज्ञोपवीतस्य न संस्कार कुर्वन्ति । महाराष्ट्रदेशीयैस्तु करणे अभ्युदयं मत्वा संस्कारः कियते । तद्वत् चक्रराजे संस्कारे अभ्युदयः, अकरणे सूत्रानुयायिनां न हानिः ॥ ९ ॥
__ मन्दिरार्चनम् ततो मन्दिराद्यर्चनक्रममाह -
तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपाय नानावृक्षमहोद्यानाय 'कल्पवृक्षवाटिकायै सन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायै पारिजातवाटिकायै कदम्बवाटिकायै पुष्यरागरत्नप्राकाराय पद्मरागरत्नप्राकाराय गोमेधरत्नप्राकाराय वज्ररत्नप्राकाराय वैडूर्यरत्नप्राकाराय इन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकाराय मरकतरत्नप्राकाराय विद्रुमरत्नप्राकाराय माणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायै आनन्दवापिकायै विमर्श'कल्पवाटिका-ब२, श्री.
* गोमेद-ब२.