________________
.११०
परशुरामकल्पसूत्रम्
" संपन्नो व्रीहिः", " इति हेतुस्तदुद्भवे" इति ईदृशस्थले जात्येकवचनमिति वदन्ति शिष्टाः । " ब्राह्मणो मम दैवतं" इति पुराणप्रयोगः । श्रुतौ बहुपत्नीकदर्शपूर्णमामे " पत्नी संनह्य", "गृहं संमार्टि", इत्येवमादीनि बहूनि सन्ति । तद्वदुपपत्तेः नैकवचनस्य सर्वथा गत्यभावः ॥
न च—-उक्तस्थलेषु बाधकवशादेकवचनम्य लक्षणां बहुत्वे कल्पयित्वा एकवचनं निर्वाह्यम् । प्रकृतेऽपि तद्वत्पक्षाश्रयणे वामकेश्वरतन्त्रस्थस्य " गुणवृत्तं ततः' इत्यत्र तत इत्यस्यैव लक्षणायां तात्पर्यग्राहकता वाच्या । सा च न संभवति । ततःपदघटितवामकेश्वरतन्त्रस्य “तबाह्ये वृत्तं” इति परमानन्दतन्त्रस्यैकवचनघटितस्य तुल्यबलत्वेन एकवचनानुसारेण तत इत्यस्यैव लक्षणापक्षं अविवक्षापक्षं वाऽऽश्रित्येकवचनविवक्षैव किमिति न क्रियते । द्वयोर्मध्ये अन्यतरस्य अन्यथानयने कार्ये तत इति पदस्वारस्येनैकवचनमविवक्षितं न विपरीतमित्यत्र नियामकाभावात्—इति वाच्यम् । प्रत्ययार्थप्रातिपदिकार्थयोर्मध्ये एकानुसारेण अपरस्यान्यथानयने प्राप्ते प्रातिपदिकस्य प्रबलत्वेन तदनुसारेण वचनप्रत्ययार्थस्यैवान्यथा नयनम् । तदुक्तं श्रीविद्यारण्यस्वामिभिः
त्रिरनृक्तिचो धर्मः स्थानधर्मोऽथ नाग्रिमः ।
स्त्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः ॥ इति प्रातिपदिकप्राबल्यसाधकयुक्तयोऽपि बह्वयः सन्ति । ग्रन्थविस्तरभयादभियुक्तोक्तिकुप्रैव लिखिता । तस्मात् प्रातिपदिकीभूतततइत्यनुसारेण एकवचनमेव अन्यथा नेयम् । तथा च सुधिया आग्रहं परित्यज्य केवलतत्त्वजुभुत्सुना विचार्यमाणे सर्वतन्त्रेष्वपि वचनमात्रस्याविवक्षां कृत्वा श्रीयन्त्रे पञ्चवृत्तान्यभिमतानीति सिध्यदिति । प्रकृतमनुसरामः ॥
भूप पत्र मिति-भूपा इति षोडशसंख्यायाः सङ्केतः । षोडश पत्राणि यस्मिंस्तत् । दिक्प त्रं-दिगित्यष्टसंख्यायाः संज्ञा, तावन्ति पत्राणि यस्मिंस्तत् । भु व नार--भुवनमिति चतुर्दशसंख्यायाः संज्ञा, तावदरं तावत्कोणम् । द्रु हि णारं द्रुहिण इति दशसंख्यायाः संज्ञा, श्रीभागवतादौ सृष्टिनिमित्तानां दशप्रजापतीनां कर्दमादीनां प्रसिद्धत्वात् । तावदरं दशकोणमित्यर्थः । एतेन विधि को ण मिति च व्याख्यातप्रायम् । दिक्पदं च व्याख्यातम् । त्रिकोण बिन्दू स्पष्टौ । म य मित्यनेन