________________
तृतीयः खण्डः - श्रीक्रमः
"
अत्र महेश्वरानन्दनाथा:- - " तद्वाह्ये वृत्तमालिख्य तद्वा चतुरश्रकम् " इति परमानन्दतन्त्रे वृत्तमित्येकवचनात् " वृत्तं ततो भूपुराणां " इति, “वृत्तं त्रिभूसदनकं " इति, “परिवेषं भृपुरं च" इति, “सुवृत्तं परमेशानि " इति त्रिपुरार्णव-नित्या-वामकेश्वरतन्त्र- दक्षिणामूर्तिसंहितासु एकवचनबलात् कर्णिकावृत्तद्वयेनैव सह त्रिवृत्तमिति व्यवस्थाप्य ततः सेतुबन्धमतमनूद्य तद्दूषणे सेतुबन्ध एव वामकेश्वरतन्त्रज्ञानार्णववचनयो: बहुषु पुस्तकेप्वनुपलंभादिति श्रीभास्कररायलेखं हेतुत्वेनोपन्यस्य सेतुबन्धं दूषयामासुः ।।
अयं प्रकारोऽसिद्धः । सेतुबन्धे तैः सिद्धान्तावसरे बहुषु पुस्तकेष्वनुपलंभादिति नोक्तः । किंतु वादिमतानुवादवेळायां उपन्यस्तः । स च वादिनो लेखः । तेन हेतुना श्रीभास्कररायमतं कथं निरस्तम् । रायैश्च प्रत्युत मत्पुस्तकमध्यलेखात् प्रमाणमेवेति प्रतिबन्धुत्तरं वृत्तद्वयापत्तिश्चेति दूषणद्वयं दत्तम् । किं च वामकेश्वरतन्त्रवचने न कोऽपि विवादं लिलेख । एवं सति तत्रापि निर्मूल ईदृशो दोषारोपः केवलं स्वपाण्डित्यप्रकटनार्थ एव । अतो वामकेश्वरतन्त्रवचनस्य वृत्तत्रयप्रापकस्य ज्ञानार्णवस्य च गतिमकल्पयित्वा न वृत्तपञ्चकनिवृत्तिर्भविप्यति ॥
१०९
यदि च निरुक्तैकवचनबलादेव यामळकवचनेन अष्टदळषोडशदळेति पृथगुक्त्वा तदुत्तरं श्रूयमाणवृत्तत्रयं तिपदे त्रयमित्यस्य समुदायानुवादकत्वरूपवैय्यर्थ्यमङ्गीकृत्य, एवं वामारूपं भ्रमित्रयमित्यत्र अष्टदळषोडशदळावयवस्य भ्रमेरेव वामारूपत्वकल्पनायासः क्रियते । तर्हि तद्बाह्य चतुरश्रकमित्यत्राप्येकवचनं तुल्यम् । तदुपोद्बलकानि वचनानि–वामकेश्वरतन्त्रे " परिवेषं भूपुरं च" इति, तत्रैव षष्ठपटले “वामारूपं चतुष्कोणं इति, पूर्वतन्त्रे च " गुणवृत्तं ततः कुर्याच्चतुरश्रं च तद्बहिः " इति, दक्षिणामूर्तिसंहितायां — “सुवृत्तं परमेशानि ततो भूबिम्बमालिखेत्" इत्यादिवचनानि । एवं वचनेषु सत्सु एकवचने निर्भरवतः अत्र परमानन्दतन्त्र टिप्पण्यां " चतुरश्रं चतुरश्रत्रयं' " इति महेश्वरानन्दनाथलेख : सन्दर्भविरुद्ध एव ॥
यदि च भूपुराणां त्रितयं द्वारशोभितं " इत्यादितन्त्रवचनैरेकवचनं तत्रत्यमविवक्षितमित्युच्यते, तर्हि वृत्तमित्यत्रैकवचनेन कोऽपराधोऽनुष्ठितः । एवं बहुप्वेकवचनं लोके वेदे च प्रयुज्यमानं बहूपलभ्यते । लोके, “ गृहे धान्यमस्ति ",
1 cc 'तच्चतुरश्रत्रयं त्रिभिरङ्गुलै : " इत्यधिकः -- ब२.
66