________________ 108 परशुरामकल्पसूत्रम् द्वारानुक्तिमात्रेण कल्प्यमानः साहसमानं" इति लिखितत्वात् कथं गुरुमतानभिज्ञतेत्युच्यते,—तदा आस्तां द्वारविषये गुरुमताभिज्ञता / रश्मिमालामन्त्रेषु सन्ध्यामन्त्रेषु च त्रितारीयोजने गुरुमतानभिज्ञता वज्रलेपायिता / एतेनायं निबन्धः सर्वतन्त्रस्वतन्त्रश्रीभास्कररायैः परिशोधित इत्यैतिह्यमपि निर्मूलमिति स्फुटं युक्तमुत्पश्यामः // व लि त्र यं वृत्तत्रयम् / अत्र बहवः-षोडशदळस्य अष्टदळस्य द्वे कर्णिकावृत्ते, तयोर्बहिः एकं वृत्तं, एवं च वृत्तत्रयं, न पद्मद्वयस्य बहिर्वत्तत्रयम् / यत्तु " वळित्रयं" इति कल्पसूत्रम् , “वृत्तत्रयं च धरणीसदनत्रयं च" इति यामळवचनं, " ज्येष्ठारूपं चतुष्कोणं वामारूपं भ्रमित्रयं” इति योगिनीतन्त्रवचनम् , सर्व उक्तवृत्तत्रयपरमेवेत्याहुः // श्रीचक्रे पञ्चवृत्तलेखनसमर्थनम् अत्र अस्मत्परमेष्ठिगुरवः सेतुबन्धे वक्ष्यमाणप्रकारान्तरेण श्रीचक्रलेखनावसरेबहिः पद्मद्वयं कुर्यादष्टषोडशकच्छदम् / गुणवृत्तं ततः कुर्याच्चतुरश्रं च तद्बहिः // इति वामकेश्वरतन्त्रवचने ततःपदस्वारस्यन पद्मद्वयाबहिरेव त्रीणि वृत्तानि, तदनुसारेण परिशेष भूपुरं चेति / अत्रैकवचनमविवक्षितम् / एवं च पञ्च वृत्तानि / अत एव ज्ञानार्णवे एतद्वाह्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम् / तद्युतं कुरु मीनाक्षि वसुपत्रं मनोहरम् // तथा षोडशपत्रं तु विलिखेत् सुरवन्दिते / तबाह्ये देवदेवेशि त्रिवृत्तं मातृकाऽन्वितम् // इत्यत्र तद्बाह्य इतिपदेन कर्णिकावृत्तादतिरिक्तं वृत्तत्रयं सुस्पष्टमुक्तम् // तद्व्याख्यातारोऽन्ये आग्रहेण तद्बाह्ये इति श्लोकाधैं स्वपुस्तक उपरि लिखितत्वात् अक्षरलेखनप्रकारस्य कस्मिंश्चित्तन्त्रे अलेखनात् अकस्मान्मातृकाऽन्वितत्वोक्तेरसङ्गतत्वात् बहुषु पुस्तकेषु अनुपलब्धेश्च प्रक्षिप्तमिति परमतमनूद्य तदुपरि यदि प्रक्षिप्तं तर्हि तृतीयवृत्तविधायकवचनाभावात् वृत्तद्वयापत्तेरिति दूषितत्वात् संहितायां तन्त्रान्तरे च बहिर्वृत्तत्रयं सुस्पष्टमस्तीति लिखितत्वात् पञ्चवृत्तानीति (सेतुबन्धे) व्यवस्थापयामासुः / /