________________
१०७
तृतीयः खण्डः-श्रीक्रमः रिपुरुषभेदेन व्यवस्थितविकल्पसंभवात् । एवं सूत्रानुयायिनां श्रीचक्रे भूपुरं द्वाररहितं, अनुक्तत्वात् ॥
ननु त्रिपुराऽर्णवे "वृत्तं ततो भूपुराणां त्रितयं द्वारशोभितं " इत्युक्तत्वात् , एवं नित्यातन्त्रे एवं त्रिभूसदनकं चतुरविभूषितं " इति, वामकेश्वरतन्त्रे " परिवेष भूपुरं च चतुर्दारोपशोभितं" इति, एवमादितन्त्रानुसारेण अत्रापि द्वारतात्पर्य कल्प्यतां इति चेत्--न "वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः" इति यामळवचने, एवमन्येप्वपि तन्त्रेषु, द्वाररहितभूपुरश्रवणेन विकल्पम्य दुर्निवारत्वात् । न चैवं द्वाररहितभूपुरस्य केनापि निबन्धकारेणालिखितत्वादिदमश्रद्धेयं इति वाच्यम् ; सौन्दर्यलहों " त्रयश्चत्वारिंशत्" इति श्लोके द्वारानुक्तेः भगवत्पादानामस्मदुक्तपक्षस्यैवाभिमतत्वात् । एवं प्रपञ्चसारसञहे श्रीविद्यारण्यस्वामिभिरपि द्वाररहितमपि श्रीचक्रे चतुरश्रमुपलभ्यते क्वचिदिति ग्रन्थेन अस्मदनुमतमेव लिखितम् । एवमतिचिरन्तनशिङ्गभूपालपद्धतावपि तथाऽस्ति । इदमन्वेषितुं प्रवृत्तौ अन्यान्यपि निबन्धान्तरवाक्यानि मिलिष्यन्ति । एतावदलमिति न विशेषयत्नः कृतः ॥
इत्थं चाहं सूत्रानुयायीति विशेषाभिमानवता नित्योत्सवनिबन्धकारेण श्रीचक्रलेखनप्रकारकथनावसरे “चतुर्दारं भूपुरं समुद्भावयेत् " इति यतो लिखितं अत एव तेन सूत्रं न परिशोधितम् । गतानुगतिकलोकानुसारेण लिखितमिति स्फुटम् ॥
किंच निबन्धकारः श्रीभास्कररायाणां शिप्य इति स्वनिबन्ध एव लिलेख । श्रीभास्कररायोक्तसेतुबन्धे “ प्रतिदिशं रेखात्रययुक्तं द्वारसामान्याभाववत्' इति तृतीयः पक्षः । कल्पसूत्रमस्मिन् पक्षे अनुकूलमिति लिखितम् ॥
किंच सर्वेषां मन्त्राणां आदौ त्रितारीसंयोग इति कल्पसूत्रस्य यागमन्दिरप्रवेशोत्तरमेव पाठात् ततः प्राक्तनमन्त्रेषु न तद्योग इति सेतुबन्धे स्थिते अयं मुषःकारी रश्मिमालामन्त्रेषु सन्ध्यावन्दने च 'त्रितारी योजयामास । तथा द्वारचतुष्टयं च योजयामास । एवं सति गुरुमतमपि यः अजानन् स्वेच्छया लिखति स कीदृश उपासकः, कीदृशो वा गुरुशिष्यभावः, तं न विद्मः ॥
यदि च सेतुबन्धे प्रथमं द्वारसामान्याभावं विलिख्य अग्रे तत्त्वं विचार्य अग्रे तत्रैव " द्वारसामान्याभावपक्षस्तु द्वारप्रतिषेधपर्युदासान्यतरमन्तरेण यामळकल्पसूत्रादौ