________________
१०६
पुरतः पञ्चशक्तिचतुः श्रीकण्ठमेळनरूपं भूसदन त्रयवलित्रय भूपपत्रदिक्पत्रभुवनारद्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयं महाचक्रराजं सिन्दूरकुङ्कुम' लिखितं चामीकरकलधौतपञ्चलोहरत्नस्फटिकायुत्कीर्ण वा निवेश्य ॥ ९ ॥
परशुरामकल्पसूत्रम्
पुरत इत्यस्य निवेश्ये त्यनेन साकमन्वयः । पञ्च शक्त यः शक्तिचक्राणि, चतुः श्रीकण्ठाः चत्वारि शिवचक्राणि, एषां मेळ न रूपं अभिन्नस्वरूपम् । एतेन विशेषणेन एतादृशस्वरूपज्ञानं पूजाऽऽदावावश्यक मिति सूचितम् । एतन्मेळनप्रकारः, पूजाकाले ईदृशज्ञानस्यावश्यकता चोक्ता ब्रह्माण्डपुराणे ----
त्रिकोणे बैन्दवं लिष्टमष्टारेऽष्टदळाम्बुजम् । दशारयोः षोडशारं भूगृहं भुवनाश्र के || शैवानामपि शाक्तानां चक्राणां च परस्परम् | अविनाभावसंबन्धं यो जानाति स चक्रवित् ॥ एवं विभागमज्ञात्वा श्रीचक्रं योऽर्चयेत् सकृत् । न तत्फलमवाप्नोति ललिताम्बा न तुप्यति ॥ इति ॥
अयमेवार्थस्तन्त्रेषु बहु प्रतिपादितः । ग्रन्थविस्तरभयान्नेह तत्रत्यवचनानि लिखितानि । भू सदन त्रयं परितः चतुरश्ररेखात्रयम् । चतुरश्रे भूसदनशक्तिग्राहकं प्रमाणं तु-
I
तद्वा वृत्तमालिख्य तद्वा चतुरश्रकम् ।
इति तन्त्रान्तरवचनम् । अस्मत्परमेष्ठिगुरुभिरपि सेतुबन्धे लिखितं 'भूगृहं नाम चतुरश्रं " इति ॥
2
श्रीचक्रे द्वाररहितचतुरश्रत्रय लेखनसमर्थनम्
ननु तन्त्रान्तरवचने चतुरश्रकमित्येकवचनेन एकमेव चतुरश्रमिति प्रतीयते, इह चतुरश्रत्रयमित्युक्तम् द्वयोर्विरोधे कथमेतदिति चेत् —न; तत्तत्तन्त्रानुसा
मिलितं---अ.
"