________________
तृतीयः खण्डः -- श्रीक्रमः
संश्लिष्टहस्तद्वयमध्यवर्ती प्रसूनपुञ्जः कुसुमाञ्जलिः स्यात् ॥ इति ॥ ॥ ७ ॥
सर्वमन्त्रेषु त्रितारीसंयोगविधिः
सर्वमन्त्रोपयुक्तां कांचित् परिभाषामाह
सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः । त्रितारी
वाङ्मयाकमलाः ॥ ८ ॥
अत्र सर्वशब्दस्य प्रकरणेन संकोचं कृत्वा श्रीविद्योपास्त्यङ्गभूतानामेतदुत्तरपठितानां इत्यर्थः । तेनैतत्पूर्वमन्त्रेषु त्रितारीयोगो नास्तीति सिद्धम् । अत एव सेतुबन्धे—–“ यागमन्दिरप्रवेशोत्तरं कल्पसूत्रे त्रितारीयोगपाठात् ततः प्राक् मन्त्रेषु न तद्योग इति मन्तव्यं " इति स्थितम् । आ दा वित्यनेन अन्तव्यावृत्तिः । यो ग इति वक्तव्ये समित्युपसर्गेण त्रितार्युच्चारः स्पष्टमभूत् । ततो यत्किंचिदङ्गमन्त्रपाठसमये मध्ये यदि करणापाटवादिदोषेण एको वर्णों लुप्तः तदा पुनर्मन्त्रः पठनीयः तत्रापि पुनः त्रितारीयोगः सूचितः । यद्वा - - त्रितारीपाठानन्तरं केनचित् प्रतिबन्धेन मन्त्रपाठे यदि क्षण विलम्बः तादृशस्थले पुनस्त्रितार्युच्चारोऽविलम्बेनोच्चारणरूपो ज्ञाप्यते । यद्यप्यनेनैव दीपनाथार्हणमन्त्रे त्रितारीयोगप्राप्तौ तत्र त्रितारीमुच्चार्येति व्यर्थम् । तथाऽपि तत्र त्रितारीमुक्त्वेति तन्मन्त्रघटकत्वं त्रितार्या ज्ञापयति । इयं परिभाषा च त्रिता योगेन मन्त्राणां संस्कारं वदति इति न वैय्यर्थ्यम् ॥
यत्तु निबन्ध दीपनाथार्हणोत्तरं गणपतिनमनं गुरुनमनं अङ्गुष्ठादिकनिष्ठान्तव्यापकमिति प्राणप्रतिष्ठा च तत्सर्वं तन्त्रान्तरस्थं अन्यप्रकरणस्थं श्रीविद्याप्रयोगे न स्प्रष्टव्यम् ॥
अत्र त्रितारी केत्याकाङ्क्षायामाह - त्रिता रीति । वाकू सबिन्दुः द्वादशस्वरः । माया तुरीयोप्मसहित द्वितीयान्तस्थोत्तरसबिन्दुस्तुर्यस्वरः । कमला प्रथमोप्मसहितद्वितीयान्तस्थोपरि सबिन्दुस्तुर्यस्वरः । एते त्रितारीपदवाच्या भवन्तीति शेषः । वागादीनामुक्तार्थत्वे प्रमाणमग्रे वक्ष्यामः ॥ ८ ॥
श्रीचक्रस्वरूपं तत्साधनद्रव्यं च
१०५
इतः परं श्रीचक्रस्वरूपं तत्साधनद्रव्यं चाह
14