________________
१०४
परशुरामकल्पसूत्रम् यागमन्दिरं गत्वा क्लृप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसने समुपविष्टः ॥ ६ ॥
या ग म न्दिरं पूजास्थानं गत्वा । एतेन सन्ध्या बहिर्जले नद्यादाविति सिद्धम् । कप्ताः धृताः आ क ल्पाः भूषणानि येनेदृशः । इदं भूषणधारणं पूजाकर्तुरङ्गम् । अतो लोके पूजाकर्तुर्धार्याणि यानि भूषणानि तान्यवश्यं धार्याणि । इदं च श्रीमतां संभवति । एवं सति दरिद्रस्य अङ्गभूतभूषणासमर्थस्य अन्धादिवदनधिकारः प्रसक्तः । अत आह—संक ल्पा क ल्पो वे ति । सङ्कल्पेन मानसक्रियया कल्पित आकल्पो येनेदृशो वा । मनसा निर्मितभूषणधारणकर्तेति यावत् । तथा च दरिद्रस्याप्यस्त्यधिकार इति भावः । भूषणानि पद्मरागप्रचुराणि, भूषणविशेषनियमस्य तन्त्रान्तरस्थस्यापि ग्रहणमभिमतम् ॥
__ यत्तु निबन्धे द्वारपूजायां ताम्बूलभक्षणमुक्तं तत् सूत्रकारानभिमतम् । यद्वा--- यागमन्दिरे क्रियाविधानात् अर्थसिद्धे गमने पुनर्यागमन्दिरं गत्वेति व्यर्थं सत् . गणपतिक्रमस्थान्तःप्रविश्येत्यर्थकशब्दकथनात् तदन्तधर्मातिदेशं ज्ञापयति । अत एव वाराहीक्रमे नायं शब्दः । तेन श्रीक्रमे श्यामाक्रमे द्वारपूजाऽस्तु । तथाऽपि श्रीक्रमे ताम्बूलभक्षणं निर्मूलमेव ॥
पीठ म नु ने ति पूर्व व्याख्यातम् । समुप विष्ट इत्यत्र समित्युपसर्गेण आ समाप्ति एकासनेन स्थेयं इति ज्ञापयति । अत एव येनासनेन समाप्तिपर्यन्तमवस्थाने स्वस्य श्रमो न स्यात् तेन पद्माद्यन्यतमेनासनेन स्थेयमित्यर्थः ।।
निबन्धे बालातृतीयबीजेन द्वादशवारमभिमन्त्रणं मूलमन्त्रेण प्रोक्षणं उक्तम् । तत् सूत्रानभिमतं ज्ञेयम् ॥ ६ ॥
एतत्सपर्योपयोगिनी त्रितारीमाह
त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥ ७ ॥
त्रि तारीं वक्ष्यमाणामुक्त्वा न म इत्यन्तमुच्चरेत् । अयं दीपनाथाहणमनुः । अनेन भूमौ पुष्पा ञ्ज लिं दद्यात् । पुष्पाणामञ्जलिगृहीतानां प्रचयः पुष्पाञ्जलिः । तदुक्तं अगस्त्यसंहितायां सोमवारविधिप्रकरणे--