________________
तृतीयः खण्डः-श्रीक्रमः ततः श्रीचक्रभावनं सवितृमण्डले देव्यै अयंदानं च विधीयते
तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य वाचमुचार्य त्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि शक्तिमुच्चार्य तन्नः क्लिन्ना प्रचोदयादिति त्रिमहेश्यै दत्तायः शतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य ॥ ५॥
तस्य सवितृ म ण्ड ल स्य दृश्यमानवर्तुलाकारस्य मध्ये नवयोनयः चतस्रः पराङ्मुखाः पञ्च स्वाभिमुखा. योनयो यस्मिन् तत् न व यो नि चक्रं श्रीचक्रमित्यर्थः । तदुक्तं कामिकागमे --- " नवयोनिः श्रीचक्रमिति” । सुन्दरीहृदयेऽपि-" नवयोनिः श्रीचक्रं विश्वस्योत्पत्तिकारणं प्रोक्तम्" इति । शेषं स्पष्टम् । वा चं प्रथमकूटं, " श्रीमद्वाग्भवकूटकस्वरूपमुखपङ्कजा" इति प्रमाणात् । प्रथमकूटानन्तरं विद्महे इत्यन्तं पठेत् । ततः का मं मध्यकूट, तदुक्तं चिद्गगनचन्द्रिकायाम्
शक्तिवाग्भवयोर्मध्ये कामराजन्तु विश्रुतः ।
रक्तशुक्लप्रभामिश्रः . . . . . . इति । तदुच्चार्य पीठ का मि नि धी म हि इति पठेत् । शक्तिं शक्तिकूटं तृतीयं उच्चार्य पठित्वा, “शक्तिकूटैकताऽऽपन्नकट्यधोभागधारिणी" इति सहस्रनामपाठात् । ततः प्रचोद या दि त्यन्तं पठेत् । इदं त्रिपुरागायत्रीत्यप्युच्यते । शेषं पूर्ववत् । आ मृ श्य जपित्वा । शेषं स्पष्टम् ॥
अत्र निबन्धकारोक्तं-स्नाने जले हस्तमात्रमण्डलकरणमारभ्य वं इति बीजेन सप्तवारमभिमन्त्रणान्तं सन्ध्यायां त्रिरात्मानं प्रोक्ष्येत्यन्तं-तन्त्रान्तरस्थं एतत्तन्त्रानुसारिणा न स्प्रष्टव्यम् । यदि स्पृश्यते तन्त्रान्तरं, तर्हि सन्ध्यात्रयं पारायणक्रमश्च केन हेतुना त्यक्तः । तन्मूलं प्रामाणिकश्चेद्वदतु ॥ ५ ॥
यागमन्दिरप्रवेशादि ततो यागमन्दिरप्रवेशादीन् वदति