________________
परशुरामकल्पसूत्रम्
स्नान कर्मणि प्राप्ते स्नानावसरे । एतेन वैदिकस्नानोत्तरत्वं अस्य सूचितम् । अयमेवार्थः स्पष्टमुक्तः त्रिपुराऽर्णवे
१०२
त्रैवर्णिकैर्वैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् ॥ इति ॥
अत्र प्रत्यञ्जलि मन्त्रावृत्तिः । अञ्जली न् इति बहुवचनेन द्रव्यभेदे सिद्धे क्रियाया आवृत्तिरपि द्रव्यभेदे मन्त्रावृत्तेरेकादशे व्यवस्थापितत्वात् । दत्वा इत्यस्य कुत्रेत्याकांक्षायां स्नानरूपतया योग्यत्वात् स्वशिरसीति पूरणीयम् । मूले न इति मूलमुच्चारयन्निति तदर्थः । त्रिः तद भिम न्त्रिताः मूलाभिमन्त्रिताः । त्रिरित्यस्य अभिमन्त्रिता इत्यनेनान्वयः सन्निहितत्वात्, न पीत्वेत्यनेन विप्रकृष्टत्वात् । तेन मूलत्रिवाराभिमन्त्रितानां अपां सकृदेव प्राशनम् । त्रिः सन्तर्प्य मूलमुच्चार्य शक्तिचकैकनायिकां श्रीललितां तर्पयामीति मन्त्रस्य सकृत्पाठः, क्रियाऽभ्यासरूपत्वात् । चतुरावृत्तितर्पणे तु मन्त्रावृत्तिरेव न क्रियाssवृत्तिः इति पूर्वमेव व्यवस्थापितम् । न हि द्रव्यभेदप्रापकं शास्त्रमस्ति, तस्मात् सकृदेव मन्त्रः । प्रोक्षणेऽप्येवमेव । आत्मा नं इति शरीरवाचकं, मुख्यार्थस्य प्रोक्षणजनितसंस्कारासंभवात् । तर्पणप्रोक्षणयोः मन्त्रानुक्तेः मूलेनेति योजयेत् । तदुक्तं त्रिपुराऽर्णवे—
मन्त्रानुक्तौ मूलमन्त्रं योजयेत् परमेश्वरि ॥ इति ॥
न 'मूलेन दत्वा' इत्यस्मादनुषङ्गः, तथा सति ' तदभिमन्त्रिताः' इत्यत्राप्यनुषङ्गे तत्पदवैयर्थ्यात् । अतोऽध्याहार एव । वस्त्रपरिधानं स्मृतिप्राप्तमनूद्यते । तत्फलं स्नानकर्मपरिसमाप्तिज्ञानं ज्ञेयम् । इत्युक्त्वा इत्येतावदपहाय स्वाहा ऽन्तोऽर्घ्यदानमन्त्रः । यद्यपि मन्त्रलिङ्गेनैव देवतालाभे सवित्र इति व्यर्थम् । तथाऽपि दत्ता इत्यत्र दानपदार्थः स्वस्वत्वध्वंसपूर्वक देवतोद्देश्यकद्रव्यत्यागः । स च अमुकदेवताया इदं न ममेति रूपः । तत्र मन्त्रलिङ्गेन मार्ताण्डभैरवायेदं न ममेति सिद्धः । “ऐन्द्रया गार्हपत्यमुपतिष्ठते " इतिवत् तं बाधितुं चतुर्थ्यन्तं स वित्रे इति । अत्रापि सकृद्दत्तद्रव्यस्य पुनर्दानासंभवात् अपरार्थे द्रव्यान्तरत्वं सिद्धम् । तथा च द्रव्यपृथक्त्वात् मन्त्रावृत्तिः, यथा नानाबीजेप्ववहननमन्त्रः ॥ ४ ॥
2
1 'मूलेन, मूलमुच्चारयन् इति तदर्थः ' इत्यधिकः -ब २.
" वैदिकसंध्योत्तरं तान्त्रिकसंध्यां करिष्ये इति संकल्प्य -- इत्यधिकः ब. कोशे.