SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयः खण्ड:-श्रीक्रमः श्रीविद्योपास्त्यनौपयिकानङ्गस्वतन्त्रगणनायकोपास्त्या यद्यदपेक्षितं तत् सिध्यतीति कृतसङ्कल्पेति पदेन सूचितम् । शि वं इति पूर्ववत् प्रकरणसमाप्तिद्योतकम् ॥ इति श्रीरामेश्वरनिर्मितायां सौभाग्योदयनान्नि परशुरामसूत्रवृत्तौ गणनायकपद्धतिर्नाम द्वितीयखण्ड: समाप्तः ॥ तृतीयः खण्डः-श्रीक्रमः ललिताऽधिकारः नित्यौघत्रयमिलितामष्टावरणाङ्गषट्कसंवीताम् । चिन्तयतां तत्कृपया वाचो निर्यान्त्ययनतो वदनात् ।। एवं पूर्वखण्डेन श्रीललितोपास्त्यङ्गभूतं गणपत्युपासनमुक्त्वा श्रीपरदेवताया ललितायाः क्रमं वक्तुमुपक्रमते एवं गणपतिमिष्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत ॥ १॥ ए व मिति विघ्न व्य ति कर इत्यन्तेन ग्रन्थेन पूर्व कंचित्कालं गणपत्याराधनं कृत्वा पश्चात् श्रीललितोपास्त्यारम्भ इति सूचितम् । एवं पूर्वोक्तप्रकारेण इष्टा उपास्य विधू ता निरस्ता स मस्ताः संपूर्णाः विघ्ना नां व्य ति क राः सङ्घाताः येन ॥ गणनायकोपास्तेः प्रधानकर्मत्वम् इदं अधिकारिविशेषणम् । अयं उत्पत्तिविधिः । पूर्वविशेषणस्वारस्यात् अधिकारविधिरपि । यद्वा-नाधिकारिविशेषणमिदम् , तथा सति गणपतेरुपासनायाः अग्रिमोपासनाङ्गत्वापत्तेः । न चेष्टापत्तिः । तार्तीयश्रुतिलिङ्गादीनि अङ्गत्वसाधकानि षट् प्रमाणानि । तन्मध्ये तृतीयवाक्यप्रमाणसिद्धं अङ्गत्वम् , तद्बाधकलिङ्गश्रुत्योरभावेन 13
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy