________________
परशुरामकल्पसूत्रम्
. ९६
वाच्यम् ; तत्र मिथुनेष्वेकैकां देवतां चतुर्वारमिति वर्तते, न मिथुनानि तर्पयित्वेति । पूजाप्रकरणे केवलमिथुनानि पूजये दित्येव । तेन मिथुनस्य देवतात्वं स्पष्टम् । एवं होमस्थलेऽपि श्रीश्रीपत्यादीत्यनेन मिथुनस्यैकदेवतात्वं स्पष्टम् । अन्यथा श्यादिविघ्नकर्तृपर्यन्तैरित्येव वदेत् , श्रीपतिग्रहणं व्यर्थम् । न च विघ्नकर्तृपर्यन्तैरित्यत्र एकदेवताग्रहणं प्रत्येकस्य देवतात्वे किमिति ज्ञापकं न भवेत् इति वाच्यम् । यदीदं मन्त्रस्वरूपज्ञापकं भवेत् अत्रापि विघ्नकर्त्रन्तैरित्यनेनैव श्रीश्रीपत्यादीनां लाभे श्रीश्रीपत्यादीति व्यर्थं सत् मन्त्रस्वरूपज्ञापकं सत् सार्थकम् । विघ्नकर्तपर्यन्तैरिति अग्रिममिथुननिवर्तकं सत् सार्थकमिति सर्व समञ्जसम् । तस्मात् चतुरावृत्तितर्पणे पूर्वोक्तयुक्त्या चतुश्चत्वारिंशदधिकचतुश्शततर्पणसंख्यापरिपूर्तये च प्रत्येकं 'देवतात्वम् । पूजायां होमे चोक्तज्ञापकेन व्यासज्यवृत्त्येव देवतात्वम् । अतो मन्त्रस्वरूपमस्मदुक्तमेव । विघ्नकर्तृपर्यन्तैरित्यनेन अग्रिममिथुनपरिसंख्या ॥
हु त्वा इत्यत्र द्रव्याकांक्षायां " अनादिष्ट आज्यं भवति" इति परिभाषया आज्यमेव । कामनाविशेषे तु द्रव्यविशेषो मोदकाऽऽदिः । पुन रा गत्य इत्यनेन पूजाप्रदेशादन्यो होमप्रदेश इति सूचितः । शेषं पूर्ववत् । यो ग्यैः संप्रदायाभिज्ञैः सह । एतद्विशेषणस्वरसार्थ वितत्य स्पष्टीकरिष्यामः उपरिष्टात् श्रीक्रमे । म पञ्च - क मु र री कृत्य स्वीकृत्य श्रीक्रमे वक्ष्यमाणेन विधिना । अत्र स ह शब्दश्च न योग्याभावेऽप्यवश्यं संपादनीयमिति तदभावे अङ्गलोपजनितं प्रायश्चित्तं वा प्रापयति, किं तु विद्यमाने साहित्यं अविद्यमाने केवलं स्वयमेव, “ सह शाखया प्रस्तरं प्रहरति" इतिवत् । अत्र गणपत्युपासनामर्यादाऽनुक्तेः श्यामाऽदिवत् । जपसंख्यायाश्चानुक्तेः तन्त्रान्तरं शरणीकार्यम् । तत्र तन्त्रान्तरवचनं, तन्त्रसारे
ध्यायेन्मन्त्र जपेन्मन्त्रं चतुर्लक्षं समाहितः । चतुस्सहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् ।
दशांशं जुहुयात् द्रव्यैरष्टभिर्मोदकादिभिः ॥ इति ॥ उद्वासनमुद्रया उद्वा स्य । सिद्ध सं क ल्पः सिद्धकार्यः । सुखी वि ह रे त् इति प्रतिपादितकर्मणः न केवलं प्रत्यूहनाशः, किन्त्विदमपि फलमिति दर्शितम् । एतेन
1 देवतात्वेऽपि पूजायां-ब२.