________________
द्वितीयः खण्डः - गणनायकपद्धतिः
९५
स्पष्टं, उपादि मं द्वितीयं, मध्य मं तृतीयं च दत्वा । अयं प्रतिपत्तिसंस्कारः मध्यमा - निति द्वितीयाश्रुतेः । दानेन द्रव्यं संस्कुर्यात् इति तदर्थः । तथा च आवरणपूजोत्तरं द्रव्यदोषे एतस्य निवृत्तिरेव । अनुग्रहं कारयित्वा तयोरनुग्रहो यथा भवेत् तथा तत्संतोषं स्वयं संपादयेत् इति भावः । नमः इत्यारभ्य जपेत् इत्यन्तः स्पष्टार्थः
1: 11
यच्च निबन्धे जपानन्तरं वटुकसुवासिनी पूजनकथनं तत्सूत्रविरुद्धमित्यनेन स्पष्टीकृतम् ॥ ९ ॥
गणपत्युद्वासनम्
यद्यग्निकार्य संपत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽनौ स्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैः मन्त्रैहुत्वा पुनरागत्य देवं त्रिवारं संतर्प्य योग्यैस्सह मपञ्चकमुररीकृत्य महागणपतिमात्मन्युद्वास्य सिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् ॥ १० ॥
इति दुष्टक्षत्रियकुलान्तक- रेणुकागर्भसंभूत- महादेवप्रधानशिष्य- परशुराम श्रीभार्गवमहोपाध्याय - श्रीमत्कुळाचार्यविरचितकल्पसूत्रे गणपतिप्रकरणं द्वितीयखण्डात्मकं समाप्तम्
यदी त्यनेन होमस्य कृताकृतत्वं सूचितम् । बलेः पूर्वं इत्यनेन क्रमशेषः सूचितः । विधिवत् इति — अग्रे वक्ष्यमाणविधिनेत्यर्थः । श्रीश्रीपतिभ्यां स्वाहेति मन्त्रस्वरूपम् ॥
यच्च निबन्धे श्रियै स्वाहा श्रीपतये स्वाहा इति मन्त्रविभागं लिलेख तं प्रत्ययं प्रश्नः– मिथुनमेका देवता, उत देवताद्वयम् ? आद्ये मन्त्रद्वय विभागोऽनुचितः । द्वितीये आवरणपूजायां श्रीश्रीपतिश्रीपादुकां पूजयामीति निबन्धे समष्टिमन्तलेखोऽनुचितः । तस्मात् सन्दर्भविरुद्धमुपेक्ष्यम् । न च तव मते चतुरावृत्तितर्पणेऽपि समष्टिमन्त्रापत्तिः इति
1 देश: सू—ब २,