________________
९.४
परशुरामकल्पसूत्रम्
कृद्भयः सर्वभूतेभ्यो हुं स्वाहा इति त्रिः पठित्वा बलिं दत्वा गणपतिबुद्धयैकं वटुकं सिद्धलक्ष्मीबुद्धयैकां शक्तिं चाहूय गन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा मम निर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्य यथाशक्ति जपेत् ॥ ९ ॥
"
एवं उक्तप्रकारेण पञ्चानामावरणानां आवरणदेवतानां समूहः पञ्चावरणी, “द्विगोः " इति ङीप् तां इष्ट्वा पूजयित्वा । 'पुनरित्यनेन पञ्चावरणान्तः पातित्वं सूचितम् । दशधा दशवारम् । तर्पणप्रकारश्च पूर्वमेव व्याख्यातः । षोडशोपचा राश्च परमानन्दतन्त्रे परिगणिताः । यथा
पाद्यमर्घ्यं चाचमनं स्नानं वस्त्रं च भूषणम् । गन्धं पुष्पं धूपदीपौ नैवेद्यं चापि वीटिकाम् । नीराजनं चाञ्जलिं च परिक्रामं नतिं शिवे । गणयेदुपचारान् वै प्रत्येकं षोडशेश्वरि ॥ इति ॥
अग्रे सूत्रोक्तषोडशोपचारा वा ॥
अत्र पूजाऽङ्गत्वेन पद्धतौ होम उक्तः, स निर्मूलः ॥
प्रणवः प्रसिद्धः, माया ह्रीं, एतयोः अन्ते अग्रे, स्वाहाऽन्तं शेषं पठेत् । अयं बलिदानमन्त्रः । इमं मन्त्रं त्रिः पठित्वा ततो ब लिदा नं कुर्यात् । बलिद्रव्यमाकांक्षितं श्रीक्रमोक्तं ग्राह्यम् । देशाकांक्षायां श्रीक्रमोक्तं स्ववामभागतः । गणपतिबुद्धया इत्यस्य अभ्यर्च्य इत्यनेनान्वयः । गणपतिस्वरूपं भावयित्वेति यावत् । पाठक्रमं बाधित्वा अर्थक्रमेण आदौ आवाहनं पश्चात् भावनं ततोऽर्चनं, एवमग्रेऽपि । अत्र द्वयोरप्याह्वानादिकं पदार्थानुसमयेन नत्वञ्जनादिवत् काण्डानुसमयेन, तद्वत् अत्र बाधकाभावात् सर्वेषां तुल्यप्रधानसन्निकर्षसंभवाच्च । आदि मं
1
' पुनरित्यनेन यथापूर्वोक्तपञ्चावरणपूजाया इव एवं पञ्चावरणीमित्येव अनुवादः । तद्वत् अयमपि अनुवाद एव । क्रममात्रविधिरिति भ्रमो निरस्तः । दशधा - ब२.