________________
द्वितीयः खण्डः-गणनायकपद्धति:
त्रिकोणे देवः तस्य षडश्रस्यान्तराळे श्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि च ऋद्धयामोदादिषणिमथुनानि षडश्रे मिथुनद्वयं षडश्रोभयपार्श्वयोस्तत्सन्धिध्वङ्गानि ब्राह्मयाद्या अष्टदळे चतुरश्राष्टदिविन्द्राद्याः पूज्याः सर्वत्र देवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरं योजयेत् ॥ ८॥
त्रि को णे देवः तHः इति शेषः । तत् त्रिकोणं ष ड श्रं च तयो र न्त राळे अनुक्तत्वात् प्रागादिदिक्षु चतुरावृत्तितर्पणपाठक्रमानुरोधेन श्रीश्री प ति प्रभृति मिथुनचतुष्ट यं पूज्यम् । एतावत् प्रथमावरणम् । ऋद्धया मो द मिथुनमारभ्य ष ण्मि थु ना नि षड श्रकोणेषु । एतदुत्तरवृत्ति मिथुन द्वयं ष ड श्रपार्श्व द्वये इति द्वितीयावरणम् । षट्कोणयन्त्रे रेखोपरि रेखा यत्र गच्छति स त त्स न्धिः । तत्र ईदृशाः सन्धयः षट् सन्ति, तादृशसन्धिषु । क्रमस्यानुक्तत्वात् अग्नीशासुरवायुकोणक्रमस्योक्तस्यासंभवात् , प्रागपवर्गता उत्तरापवर्गता यथा स्यात् तथा, क्रममनादृत्य, ष ड ङ्गा नि यजेत् । इति तृतीयावरणम् । अष्ट द ळे क्रमाकांक्षायां श्रीविद्यार्णवोक्तः । आद्यचतसृणां पश्चिमादिप्रादक्षिण्येन अग्रिमाणां वायव्यादिविदिक्षु प्रादक्षिण्येन पूज्या ब्रायाद्यष्टमातरः इति चतुर्थावरणम् । चतुर श्रे प्रागा द्य ष्ट दि क्षु तत्तद्दिक्पतीन् यजेत् । अत्र मन्त्राकांक्षासत्वात् सन्निकृष्टश्यामाक्रमोक्तदिवपालमन्त्रा ग्राह्याः । अथवा-वक्ष्यमाणाष्टाक्षरीयुक्तनाममन्त्रेणैव । इति पञ्चमावरणम् । अनुष्ठाने उपयुक्तां सर्वसाधारणीं कांचित् परिभाषामाह-सर्वत्रे ति । सर्वत्र पूजासामान्ये देव ता ना म सु नाममन्त्रेषु । घटकत्वं सप्तम्यर्थः । श्री पूर्व प्रथमं श्रीपदमुच्चार्य ततः पादुकां इति ततः पूज या मि इति । तथा च श्रीपादुकां पूजयामीति योज्यमिति यावत् ॥ ८ ॥
गणनाथस्य पुनरुपतर्पणादिः एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्य षोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्न