________________
परशुरामकल्पसूत्रम्
धर्म ज्ञानं च वैराग्यमैश्वर्यं पश्चिमादितः ।
अधर्मादिचतुष्कं च . . . . . ॥ इति ॥ पञ्चधा पञ्चप्रकारैः गन्धपुष्पधूपदीपनैवेद्यरूमैः उ प चर्य पूजयित्वा । अत्र मन्त्राःलं पृथिव्यात्मने गन्धं कल्पयापि, हं आकाशात्मने पुप्पं कल्पयामि, यं वाय्वात्मने धूपं कल्पयामि, रं अग्न्यात्मने दीपं कल्पयामि, वं अमृतात्मने अमृतनैवेद्यं कल्पयामि । अत्र प्रमाणं परमानन्दतन्त्रे
गन्धं पुष्पं च धूपं च दीपं नैवेद्यकं प्रिये । भूतपञ्चकबीजेन पृथिव्याद्यात्मकं परम् ।
क्रमेण पञ्चभिर्देवि मानसे त्वेवमर्चयेत् ॥ इति ॥ मूले न द श धा दशवारम् । सन्त र्ये त्यत्र तर्पणसाधनद्रव्यं विशेषार्घ्यपात्रस्थम् । तत्प्रकारश्च कथं कार्य इत्याकांक्षितत्वात् सन्निकृष्टत्वात् श्यामाक्रमे वक्ष्यमाणधर्म एव ग्राह्यः । एवमावरणपूजायामपि इतिकर्तव्यताऽऽकांक्षायां तत एव ग्राह्यम् । तर्पणे तु मूलमुक्त्वा श्रीमहागणपतिं तर्पयामीति मन्त्रशेषः । प्रतितर्पणं मन्त्रावृत्तिः, द्रव्यपृथक्त्वात् । अत एव हिरण्यकेशिसूत्रे " द्रव्यपृथक्त्वेऽभ्यावर्तते " इति ॥
यत्तु निबन्ध तर्पणमन्त्रे पूजयामीति मन्त्रशेषलेखनं तदशुद्धम् । यदि तर्पणपूजनयोरभेदः तबग्रेऽपि पञ्चावरणतर्पणं कुर्यादित्येव वदेत् , न पूजां कुर्यादिति वदेत् । यतो धातुभेदेनोच्चारणं अतोऽर्थभेदोऽप्यावश्यकः । अर्थभेदे पूजालिङ्गकमन्त्रस्य तर्पणानङ्गत्वं स्पष्टम् । एवं निबन्धे प्रधानदेवपूजोत्तरं षडङ्गौघत्रयपूजा चोक्ता । तत्र मूलं यदि तन्त्रान्तरं तस्यात्र प्रवेशो नास्तीति पूर्वमेवोक्तम् । अतस्तन्न कार्यम् ॥
____ मिथुना नां आवरणद्वयं, अङ्ग देवताः तृतीयावरणं, ब्राह्मया द्याः चतुर्थावरणं, इन्द्रा द्याः पञ्चमावरणं, एवं पञ्चा व र ण पूजां कुर्यात् ॥ ७ ॥
पञ्चावरणीपूजा 'तत्र प्रधानदेवतातर्पणदेशमाह-- 1 तदेव सविस्तरं प्रपञ्चयति-अ.